🚧This site is under construction — data is currently being added and may be incomplete or change.🚧
🕉

Sanatan Dharma

सनातन धर्म — Hindu Scripture Knowledge Base

Gita Bhashya (Sri Ramanujacharya) 13.2

Gita Bhashya (Sri Ramanujacharya) 13.2 · 13 · Verse 2

vishishtadvaitaramanujacharyabhagavad-gitacommentaryvedanta

Sanskrit Original

।।13.2।।देवमनुष्यादिसर्वक्षेत्रेषु वेदितृत्वैकाकारं क्षेत्रज्ञं च मां विद्धि -- मदात्मकं विद्धि। क्षेत्रज्ञं च अपि इति अपिशब्दात् क्षेत्रम् अपि मां विद्धि इति उक्तम् इति अवगम्यते।यथा क्षेत्रं क्षेत्रज्ञविशेषणतैकस्वभावतया तदपृथक्सिद्धेः तत्सामानाधिकरण्येन एव निर्देश्यं? तथा क्षेत्रं क्षेत्रज्ञः च मद्विशेषणतैकस्वभावतया मदपृथक्सिद्धेः मत्सामानाधिकरण्येन एव निर्देश्यौ विद्धि। वक्ष्यति हि क्षेत्रात् क्षेत्रज्ञात् च बद्धमुक्तोभयावस्थात् क्षराक्षरशब्दनिर्दिष्टाद् अर्थान्तरत्वं परस्य ब्रह्मणो वासुदेवस्य -- द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च। क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते।।उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः। यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः।।यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः। अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः।। (गीता 15।1618) इति। पृथिव्यादिसंघातरूपस्य क्षेत्रस्य क्षेत्रज्ञस्य च भगवच्छरीरतैकस्वभावस्वरूपतया भगवदात्मकत्वं श्रुतयो वदन्ति।यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः (बृह0 उ0 3।7।3) इत्यारभ्यय आत्मनि तिष्ठन्नात्मनोऽन्तरो यमात्मा वेद यस्यात्मा शरीरं यः आत्मानमन्तरो यमयति। स त आत्मान्तर्याम्यमृतः (बृह0 उ0 3।7।22) इत्याद्याः।इदम् एव अन्तर्यामितया सर्वक्षेत्रज्ञानाम् आत्मत्वेन अवस्थानं भगवत्सामानाधिकरण्येन व्यपदेशहेतुः। अहमात्मा गुडाकेश सर्वभूताशयस्थितः। (गीता 10।20)न तदस्ति विना यत्स्यान्मया भूतं चराचरम्।। (गीता 10।39)विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत्।। (गीता 10।42) इति। पुरुस्ताद् उपरिष्टात् च अभिधाय मध्ये सामानाधिकरण्येन व्यपदिशति।आदित्यानामहं विष्णुः (गीता 10।21) इत्यादिना।यद् इदं क्षेत्रक्षेत्रज्ञयोः विवेकविषयं तयोः मदात्मकत्वविषयं च ज्ञानम् उक्तम्? तद् एव उपादेयं ज्ञानम् इति मम मतम्।केचिद् आहुः -- क्षेत्रज्ञं चापि मां विद्धि इति सामानाधिकरण्येन एकत्वं अवगम्यते? ततश्च ईश्वरस्य एव सतः अज्ञानात् क्षेत्रज्ञत्वम् इव भवति इति अभ्युपगन्तव्यम्? तन्निवृत्त्यर्थः च अयम् एकत्वोपदेशः। अनेन च आप्ततमभगवदुपदेशेन रज्जुः इयं न सर्पः? इति आप्तोपदेशेन सर्पत्वभ्रमनिवृत्तिवत् क्षेत्रज्ञत्वभ्रमो निवर्तते इति।ते प्रष्टव्याः अयम् उपदेष्टा भगवान् वासुदेवः परमेश्वरः किम् आत्मयाथात्म्यसाक्षात्कारेण निवृत्ताज्ञानः? उत न इति।निवृत्ताज्ञानः चेत्? निर्विशेषचिन्मात्रैकस्वरूपे आत्मनि अतद्रूपाध्यासासम्भावनया कौन्तेयादिभेददर्शनं तान् प्रति उपदेशादिव्यापारः च न संभवति। अथ आत्मयाथात्म्यसाक्षात्काराभावाद् अनिवृत्ताज्ञानः? तर्हि तस्य अज्ञत्वाद् एव आत्मज्ञानोपदेशारम्भो न संभवतिउपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः। (गीता 4।34) इति हि उक्तम्।अत एवमादिवादा अनाकलित -- श्रुतिस्मृतीतिहासपुराणन्यायसदाचार -- स्ववाक्यविरोधैः स्ववचः स्थापनदुराग्रहैः अज्ञानिभिः जगन्मोहनाय प्रवर्तिताः? इति अनादरणीयाः। अत्र इदं तत्त्वम् -- अचिद्वस्तुनः चिद्वस्तुनः परस्य ब्रह्मणो भोग्यत्वेन भोक्तृत्वेन ईशितृत्वेन च स्वरूपविवेकम् आहुः काश्चन श्रुतयः -- असमान्मायी सृजते विश्वमेतत्तस्मिंश्चान्यो मायया सन्निरुद्धः।। (श्वे0 उ0 4।9)मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्। (श्वे0 उ0 4।10)क्षरं प्रधानममृताक्षरं हरः क्षरात्मानावीशते देव एकः। (श्वे0 उ0 1।10)अमृताक्षरं हरः इति भोक्ता निर्दिश्यते? प्रधानं भोग्यत्वेन हरति इति हरः। स कारणं करणाधिपाधिपो न चास्य कश्चिज्जनिता न चाधिपः।। (श्वे0 उ0 6।9)प्रधानक्षेत्रज्ञपतिर्गुणेशः। (श्वे0 उ0 6।16)पतिं विश्वस्यात्मेश्वरं शाश्वतं शिवमच्युतम्। (तै0 ना0 उ0 1।)ज्ञाज्ञौद्वावजावीशनीशौ। (श्वे0 उ0 1।9)नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान्।। (श्वे0 उ0 6।13)भोक्ता भोग्यं प्रेरितारं च मत्वा (श्वे0 उ0 1।12)?पृथगात्मानं प्रेरितारं च मत्वा जुष्टस्ततस्तेनामृत्वमेति (श्वे0 उ0 1।6)तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्योऽभिचाकशीति। (मु0 उ0 3।1।1)अजामेकां लोहितशुक्लकृष्णां बह्वीः प्रजा सृजमानां सरूपाः। अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः।। (श्वे0 उ0 4।5)गौरनाद्यन्तवती सा जनित्री भूतभाविनी। (मु0 उ0 5)समाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति मुह्यमानः। जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः (श्वे0 उ0 4।7) इत्याद्याः।अत्रापि -- अहंकारं इतीयं मे भिन्ना प्रकृतिरष्टधा।।अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम्। जीवभूतां महाबाहो ययेदं धार्यते जगत्।। (गीता 7।45)सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम्। कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम्।।प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः। भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात्।। (गीता 9।7?8)मयाध्यक्षेण प्रकृतिः सूयते सचराचरम्। हेतुनानेन कौन्तेय जगद्विपरिवर्तते।। (गीता 9।10)प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि। (गीता 23।19)मम योनिर्महद्ब्रह्म तस्मिन् गर्भं दधाम्यहम्। संभवः सर्वभूतानां ततो भवति भारत।। (गीता 14।3) इति।कृत्स्नजगद्योनिभूतं महद् ब्रह्म मदीयं प्रकृत्याख्यं भूतसूक्ष्मम् अचिद्वस्तु यत् तस्मिन् चेतनाख्यं गर्भं संयोजयामि? ततो मत्संकल्पकृतात् चिदचित्संसर्गाद् एव देवादिस्थावरान्तानाम् अचिन्मिश्राणां सर्वभूतानां संभवो भवति इत्यर्थः। श्रुतौ अपि भूतसूक्ष्मं ब्रह्म इति निर्दिष्टम्तस्माद् एतद्ब्रह्म नामरूपमन्नं च जायते (मु0 उ0 1।1।9) इति। एवं भोक्तृभोग्यरूपेण अवस्थितयोः सर्वावस्थावस्थितयोः चिदचितोः परमपुरुषशरीरतया तन्नियाम्यत्वेन तदपृथक्स्थितिं परमपुरुषस्य च आत्मत्वम् आहुः काश्चन श्रुतयः -- यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद? यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयति (बृ उ0 3।7।3) इत्यारभ्यय आत्मनि तिष्ठन्नात्मनोऽन्तरो यमात्मा न वेद? यस्यात्मा शरीरं य आत्मानमन्तरो यमयति स त आत्मान्तर्याम्यमृतः (बृ0 उ0 3।7।22) इति। तथायस्य पृथिवी शरीरम्? यः पृथिवीमन्तरे संचरयन् यं पृथिवी न वेद इति आरभ्ययस्याक्षरं शरीरं योऽक्षरमन्तरे संचरन् यमक्षरं न वेदयस्य मृत्युः शरीरं यो मृत्युमन्तरे संचरन् यं मृत्युर्न वेद। स एष सर्वभूतान्तरात्मापहतपाप्मा दिव्यो देव एको नारायणः (सुबालो0 7) अत्र मृत्युशब्देन तमःशब्दवाच्यं सूक्ष्मावस्थम् अचिद्वस्तु अभिधीयते। अस्याम् एव उपनिषदिअव्यक्तमक्षरे लीयते अक्षरं तमसि लीयते। तमः परे देव एकीभूय तिष्ठति (सुबालो0 2) इति वचनात्अन्तःप्रविष्टः शास्ता जनानां सर्वात्मा (तै0 आ0 3।11) इति च।एवं सर्वावस्थावस्थितचिदचिद्वस्तुशरीरतया तत्प्रकारः परमपुरुष एव कार्यावस्थकारणावस्थजगद्रूपेण अवस्थित इति इमं अर्थं ज्ञापयितुं काश्चन श्रुतयः कार्यावस्थं कारणावस्थं जगत् स एव इति आहु --,यथासदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्। (छा0 उ0 6।2।2)तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजत (छा0 उ0 6।2।3) इति आरभ्यसन्मूलाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठाः (छा0 उ0 6।8।6)ऐतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतो (छा0 उ0 6।8।7) इति। तथासोऽकामयत बहु स्यां प्रजायेयेति। स तपोऽतप्यत। स तपस्तप्त्वा इदं सर्वमसृजत इत्यारभ्यसत्यं चानृतं च सत्यमभवत् (तै0 उ0 2।6।1) इत्याद्याः। अत्र अपि श्रुत्यन्तरसिद्धः चिदचितोः परमपुरुषस्य च स्वरूपविवेकः स्मारितः।हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणीति (छा0 उ0 6।3।2)तत्सृष्ट्वा तदेवानुप्राविशत्। तदनुप्रविश्य सच्च त्यच्चाभवत्। विज्ञानं चाविज्ञानं च सत्यं चानृतं च सत्यमभवत् (तै0 उ0 2।6।1) इति च।अनेन जीवेन आत्मना अनुप्रविश्य इति जीवस्य ब्रह्मात्मकत्वं? तद्सच्च त्यच्चाभवत् विज्ञानं चाविज्ञानं च इति अनेन ऐकार्थ्याद् आत्मशरीरभावनिबन्धनम् इति विज्ञायते। एवंभूतम् एव यन्नामरूपव्याकरणंतद्धेदं तर्ह्यव्याकृतमासीत् तन्नामरूपाभ्यामेव व्याक्रियते (बृ0 उ0 1।4।7) इत्यत्र अपि उक्तम्।अतः कार्यावस्थः कारणावस्थः च स्थूलसूक्ष्मचिदचिद्वस्तुशरीरः परमपुरुष एव? इति कारणात् कार्यस्य अनन्यत्वेन कारणाविज्ञानेन कार्यस्य ज्ञाततया एकविज्ञानेन सर्वविज्ञानं समीहितम् उपपन्नतरम्। हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि (छा0 उ0 6।3।2) इति तिस्रो देवता इति सर्वम् अचिद् वस्तु निर्दिश्य तत्र स्वात्मकजीवानुप्रवेशेन नामरूपव्याकरणवचनात् सर्वे वाचकाः शब्दाः अचिज्जीवविशिष्टपरमात्मन एव वाचकाः? इति कारणावस्थपरमात्मवाचिना शब्देन कार्यवाचिनः शब्दस्य सामानाधिकरण्यं मुख्यवृत्तम्। अतः स्थूलसूक्ष्मचिदचित्प्रकारं ब्रह्म एव कार्यं कारणं च इति ब्रह्मोपादानं जगत्।सूक्ष्मचिदचिद्वस्तुशरीरं ब्रह्म एव कारणम् इति जगतो ब्रह्मोपादानत्वे अपि संघातस्य उपादानत्वेन चिदचितोः ब्रह्मणः च स्वभावासंकरः अपि उपपन्नतरः।यथा शुक्लकृष्णरक्ततन्तुसंघातोपादानत्वे अपि विचित्रपटस्य तत्तत्तन्तुप्रदेशे एव शौक्ल्यादिसंयोगः? इति कार्यावस्थायाम् अपि न सर्वत्र वर्णसंकरः? कारणवत् सर्वत्र च असंकरः तथा चिदचिदीश्वरसंघातोपादानत्वे अपि जगतः कार्यावस्थायाम् अपि भोक्तृत्वभोग्यत्वनियन्तृत्वनियम्यत्वाद्यसंकरः।तन्तूनां पृथक्स्थितियोग्यानाम् एव पुरुषेच्छया कदाचित्संहतानां कारणत्वं कार्यत्वं च इह तु चिदचितोः सर्वावस्थयोः परमपुरुषशरीरत्वेन तत्प्रकारतया एव पदार्थत्वात् तत्प्रकारः परमपुरुष एव कारणं कार्यं च? स एव सर्वदा सर्वशब्दवाच्य इति विशेषः स्वभावभेदः तदसंकरः च तत्र च अत्र च तुल्यः। एवं च सति परस्य ब्रह्मणः कार्यानुप्रवेशे अपि स्वरूपान्यथाभावाभावाद् अविकृतत्वम् उपपन्नतरम्। स्थूलावस्थस्य नामरूपविभागविभक्तस्य चिदचिद्वस्तुन आत्मतया अवस्थानात् कार्यत्वम् अपि उपपन्नतरम्। अवस्थान्तरापत्तिः एव हि कार्यता। निर्गुणवादाः च परस्य ब्रह्मणो हेयगुणसंबन्धाभावाद्उपपद्यन्ते।अपहतपाप्मा विजरो विमृत्युर्विशोकोविजिघत्सोऽपिपासः (छा0 उ0 8।7।1) इति हेयगुणान् प्रतिषिध्यसत्यकामः सत्यसङ्कल्पः (छा0 उ0 8।7।1) इति कल्याणगुणान् विदधती इयं श्रुतिः एव अन्यत्र सामान्येन अवगतं गुणनिषेधं हेयगुणविषयं व्यवस्थापयति।ज्ञानस्वरूपं ब्रह्म इति वादः च सर्वज्ञस्य सर्वशक्तेः निखिलहेयप्रत्यनीककल्याणगुणाकरस्य परस्य ब्रह्मणः स्वरूपं ज्ञानैकनिरूपणीयं स्वप्रकाशतया ज्ञानस्वरूपं च इति अभ्युपगमाद् उपपन्नतरः। यः सर्वज्ञः सर्ववित् (मु0 उ0 1।1।9)परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च। (श्वे0 उ0 6।8)विज्ञातारमरे केन विजानीयात् (बृ0 उ0 2।4।14) इत्यादिका ज्ञातृत्वम् आवेदयन्ति।सत्यं ज्ञानमनन्तम् (तै0 उ0 2।1।1) इत्यादिकाश्च? ज्ञानैकनिरूपणीयतया स्वप्रकाशतया च ज्ञानस्वरूपत्वम्।सोऽकामयत बहु स्यां प्रजायेय। (तै0 उ0 2।6।1)तदैक्षत बहु स्याम् (छा उ0 6।2।3)तन्नामरूपाभ्यामेव व्याक्रियत। (बृ0 उ0 1।4।7)आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञात इदं सर्वं विदितं (भवति)। (बृ0 उ0 4।5।6)सर्वं तं परादाद् योऽन्यत्रात्मनः सर्वं वेद। (बृ0 उ0 4।5।7)(तस्य ह वा) अस्य महतो भूतस्य निःश्वसितमेद्यदृग्वेदः। (बृ0 उ0 4।5।11) इति ब्रह्म एव स्वसंकल्पाद् विचित्र स्थिरत्रसस्वरूपतया नानाप्रकारम् अवस्थितम् इति। तत्प्रत्यनीकाब्रह्मात्मकवस्तुनानात्वम् अतत्त्वम् इति प्रतिषिध्यते।मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति। (बृ0 उ0 4।4।19)नेह नानास्ति किञ्चन। (क0 उ0 2।1।11)यत्र हि द्वैतमिव भवति। ৷৷. तदितर इतरं पश्यति। ৷৷. यत्र त्वस्य सर्वमात्मैवाभूत् तत् केन किं जिघ्रेत् तत्केन कं पश्येत् (बृ0 उ0 2।4।14) इत्यादिना। न पुनःबहु स्यां प्रजायेय (तै0 उ0 2।6) इत्यादिश्रुतिसिद्धस्वसंकल्पकृतं ब्रह्मणो नानानामरूपभाक्त्वेन नानाप्रकारत्वम् अपि निषिध्यते।यत्रत्वस्य सर्वमात्मैवाभूत् (बृ0 उ0 2।4।14) इति निषेधवाक्यारम्भे च तत्स्थापितंसर्वं तं परादाद्योऽन्यत्रात्मनः सर्वं वेद (बृ0 उ0 4।5।7)तस्य ह वा एतस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदः (बृ0 उ0 4।5।7) इत्यादिना।एवं चिदचिदीश्वराणां स्वरूपभेदं स्वभावभेदं च वदन्तीनां तासां कार्यकारणभावं कार्यकारणयोः अनन्यत्वं वदन्तीनां च सर्वासां श्रुतीनाम् अविरोधः? चिदचितोः परमात्मनः च सर्वदा शरीरात्मभावं शरीरभूतयोः कारणदशायां नामरूपविभागानर्हसूक्ष्मदशापत्तिं कार्यदशायां च तदर्हस्थूलदशापत्तिं वदन्तीभिः श्रुतिभिः एव,ज्ञायते? इति ब्रह्माज्ञानवादस्य औपाधिकब्रह्मभेदवादस्य अन्यस्य अपि अन्यायमूलकस्य सकलश्रुतिविरुद्धस्य न कथञ्चिद् अपि अवकाशो विद्यते इत्यलम् अतिविस्तरेण।

🤖 AI GeneratedAI Generated

13.2 The body which is cognised in identity with the experiencing self by co-ordinate predication (Samanadhikaranya) in the propositions, 'I am a god, 'I am a man,' 'I am fat,' 'I am slender' etc., is described by those who know the real nature of the body as only the Field (Ksetra) of experience for the experiencing self, who is distinct from the body. Those who know this, namely, those who know the exact nature of the self, call It the Field-knower (Ksetrajna). That knower who knows the body, as divided into its different members and as their collectivity, can say 'I know it, the body, as an object.' The person with this perception is the one who is called the Ksetrajna or the Field-knower, who must necessarily be different from the Field (Ksetra), which is the object of this knowledge. It is true that at the time of perceiving an object like a pot which is different from one's body, the seer who thinks 'I am a god who sees it' or 'I am a man who sees it' etc., is putting himself as identical with the body through co-ordinate predication. In the same way he experiences the body as an object of knowledge when he says 'I know this body.' Thus if the body is an object of knowledge, it must be different from the knowing self. Therefore, the Field-knower (Ksetrajna). The knower, is other than the body which is an object of knowledge like a jar, etc. But this knowledge which arises by way of co-ordinate predication is justified on the ground that the body is inseparable from oneself; for it constitutes an attribute of the self like 'cow-ness' of the cow etc. The knowing self is however unie in being an eternal and subtle form of knowledge. But this is inaccessible to the ordinary man's organs of vision; it is accessible only to a mind refined by Yoga. The ignorant see the knower only in the form of Prakrti because of close proximity to or union with Prakrti. Sri Krsna thus declares later on: 'When in identiciation with the Gunas he departs or stays or experiences, the deluded perceive him not. They, who have the eye of knowledge, see' (15.10).