Gita Bhashya (Sri Ramanujacharya) 13.16
Gita Bhashya (Sri Ramanujacharya) 13.16 · 13 · Verse 16
Sanskrit Original
।।13.16।।देवमनुष्यादिभूतेषु सर्वत्र स्थितम् आत्मवस्तु वेदितृत्वैकाकारतया अविभक्तम् अविदुषां देवाद्याकारेणअयं देवो मनुष्यः इति विभक्तम् इव च स्थितम्।देवः अहम् मनुष्यः अहम् इति देहसामानाधिकरण्येन अनुसंधीयमानम् अपि वेदितृत्वेन देहाद् अर्थान्तरभूतं ज्ञातुं शक्यम् इति आदौ उक्तम्एतद् यो वेत्ति (गीता 13।1) इति।इदानीं प्रकारान्तरैः च देहाद् अर्थान्तरत्वेन ज्ञातुं शक्यम् इति आह -- भूतभर्तृ च इति।भूतानां पृथिव्यादीनां देहरूपेण संहृतानां यद् भर्तृ तद् भर्तव्येभ्यो भूतेभ्यः अर्थान्तरं ज्ञेयम्? अर्थान्तरम् इति ज्ञातुं शक्यमित्यर्थः। तथा ग्रसिष्णु अन्नादीनां भौतिकानां ग्रसिष्णु? ग्रस्यमानेभ्यो भूतेभ्यो ग्रसितृत्वेन अर्थान्तरभूतम् इति ज्ञातुं शक्यम्।प्रभविष्णु च प्रभवहेतुः च। ग्रस्तानामन्नादीनाम् आकारान्तरेण परिणतानां प्रभवहेतुः तेभ्यः अर्थान्तरम् इति ज्ञातुं शक्यम् इत्यर्थः।मृतशरीरे ग्रसनप्रभवादीनाम् अदर्शनात् न भूतसंघातरूपं क्षेत्रं ग्रसनप्रभवभरणहेतुः इति निश्चीयते।
13.16 Abandoning the elements like earth etc., It can exist outside the body. It can exist within them while performing spontaneous activities as established in the Srutis: 'Eating, playing, enjoying with partners or with vehicles' (Cha. U., 8.12.3). 'It is unmoving and yet moving' - it is by nature, unmoving, It is moving when It has a body. It is so subtle that none can comprehend It. Although existing in a body, this principle, possessed of all powers and omniscient, cannot be comprehended by bound ones because of Its subtlety and Its distinctiveness from the body. It is far away and yet It is very near - though present in one's own body, It is far away from those who are devoid of modesty and other alities (mentioned above) as also to those who possess contrary alities. To those who possess modesty and such other alities, the same self is very near.