Gita Bhashya (Sri Ramanujacharya) 13.12
Gita Bhashya (Sri Ramanujacharya) 13.12 · 13 · Verse 12
Sanskrit Original
।।13.12।।अमानित्वादिभिः साधनैः ज्ञेयं प्राप्यं यत् प्रत्यगात्मस्वरूपं तत् प्रवक्ष्यामि? यद् ज्ञात्वा जन्मजरामरणादिप्राकृतधर्मरहितम् अमृतम् आत्मानं प्राप्नोति। अनादि आदिर्यस्य न विद्यते तद् अनादि? अस्य हि प्रत्यगात्मन उत्पत्तिः न विद्यते तत एव अन्तो न विद्यते। श्रुतिश्च -- न जायते म्रियते वा विपश्चित् (क0 उ0 1।2।18) इति। मत्परम् -- अहं परो यस्य तद् मत्परम् -- इतस्त्वन्यां प्रकृतिं विद्धि मे परां जीवभूताम् (गीता 7।5) इति हि उक्तम्? भगवच्छरीरतया भगवच्छेषतैकरसं हि आत्मस्वरूपम्। तथा च श्रुतिः -- य आत्मनि तिष्ठन्नात्मनोऽन्तरो यमात्मा न वेद यस्यात्मा शरीरं य आत्मानमन्तरो यमयति (बृ0 उ0 3।7।22) इति। तथा स कारणं करणादिपाधिपो न चास्य कश्चिज्जनिता न चाधिपः। (श्वे0 उ0 6।9)प्रधानक्षेत्रज्ञपतिर्गुणेशः (श्वे0 उ0 6।16) इत्यादिका। ब्रह्म बृहत्त्वगुणयोगि? शरीरादेः अर्थान्तरभूतम्? स्वतः शरीरादिभिः परिच्छेदरहितं क्षेत्रज्ञतत्त्वम् इत्यर्थः।स चानन्त्याय कल्पते (श्वे0 उ0 5।9) इति हि श्रूयते। शरीरपरिच्छिन्नत्वं च अस्य कर्मकृतं कर्मबन्धाद् मुक्तस्य आनन्त्यम्। आत्मनि अपि ब्रह्मशब्दः प्रयुज्यते।स गुणान्समतीत्यैतान् ब्रह्मभूयाय कल्पते। (गीता 14।26)ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च।। (गीता 14।27)ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति। समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम्।। (गीता 18।54) इति वचनम्।न सत् तत् न असद् उच्यते कार्यकारणरूपावस्थाद्वयरहिततया सदसच्छब्दाभ्याम् आत्मस्वरूपं न उच्यते। कार्यावस्थायां हि देवादिनामरूपभाक्त्वेन सद् इति उच्यते? तदनर्हतया कारणावस्थायाम् असद् इति उच्यते। तथा च श्रुतिः -- असद्वा इदमग्र आसीत्। ततो वै सदजायत। (तै0 उ0 2।7)तद्धेदं तर्ह्यव्याकृतमासीत्तन्नामरूपाभ्यां व्याक्रियते (बृ0 उ0 1।4।7) इत्यादिका। कार्यकारणावस्थाद्वयान्वयः तु आत्मनः कर्मरूपाविद्यावेष्टनकृतः? न स्वरूपतः? इति सदसच्छब्दाभ्याम् आत्मस्वरूपं न उच्यते।यद्यपिअसद्वा इदमग्र आसीत् इति कारणावस्थं परं ब्रह्म उच्यते। तथापि नामरूपविभागानर्हसूक्ष्मचिदचिद्वस्तुशरीरं परं ब्रह्म कारणावस्थम् इति कारणावस्थायां क्षेत्रक्षेत्रज्ञस्वरूपम् अपि असच्छब्दवाच्यम्? क्षेत्रज्ञस्य सा अवस्था कर्मकृता इति परिशुद्धस्वरूपं न सदसच्छब्दनिर्देश्यम्।
13.12 'Adhyatma-jnana' is the knowledge that pertains to the self. Reflection for the attainment of knowledge of the truth, namely, being always intent in the thought having for its object the knowledge of the truth. 'Knowledge' is that by which the self is realised. The meaning is that it is the means for the knowledge of the self. The group of attributes mentioned before, beginning with modesty etc., are those that are favourable for the knowledge of the self in association with the body. All the evolutes of Ksetra, which are different from those mentioned above, constitute ignorance, as they are antagonistic to the knowledge of the self. Now, the nature of Ksetrajna, characterised as the knower in the stanza, 'He who knows it' (13.1), is examined: