Gita Bhashya (Sri Ramanujacharya) 13.11
Gita Bhashya (Sri Ramanujacharya) 13.11 · 13 · Verse 11
vishishtadvaitaramanujacharyabhagavad-gitacommentaryvedanta
Sanskrit Original
।।13.11। आत्मनि ज्ञानम् अध्यात्मज्ञानं तन्निष्ठत्वम्? तत्त्वज्ञानार्थदर्शनं तत्त्वज्ञानप्रयोजनं यत् तत्त्वं तन्निरतत्वम् इत्यर्थः। ज्ञायते अनेन आत्मा इति ज्ञानम् आत्मज्ञानसाधनम् इत्यर्थः। क्षेत्रसंबन्धिनः पुरुषस्य अमानित्वादिकम् उक्तं गुणवृन्दम् एव आत्मज्ञानोपयोगि? एतद्व्यतिरिक्तं सर्वं क्षेत्रकार्यम् आत्मज्ञानविरोधि इति अज्ञानम्। अथएतद् यो वेत्ति (गीता 13।1) इति वेदितृत्वलक्षणेन उक्तस्य क्षेत्रज्ञस्य स्वरूपं विशोध्यते --
🤖 AI GeneratedAI Generated
13.11 'Constant devotion' means devotion with a single end, namely, Myself the Lord of all; 'remaining in places free from people' means having no love for crowds of people.