Taittiriya Samhita 7.1.10
Krishna Yajurveda · Kanda 7, Prapathaka 1 · Verse 7.1.10
Sanskrit Original
सं॒व॒थ्स॒रो वा इ॒दमेक॑ आसी॒थ्सो॑ऽकामयत॒र्तून्थ्सृ॑जे॒येति॒ स ए॒तं प॑ञ्चरा॒त्रम॑पश्य॒त्तमाह॑र॒त्तेना॑यजत॒ ततो॒ वै स ऋ॒तून॑सृजत॒ य ए॒वं वि॒द्वान्प॑ञ्चरा॒त्रेण॒ यज॑ते॒ प्रैव जा॑यते॒ त ऋ॒तवः॑ सृ॒ष्टा न व्याव॑र्तन्त॒ त ए॒तं प॑ञ्चरा॒त्रम॑पश्य॒न्तमाह॑र॒न्तेना॑यजन्त॒ ततो॒ वै ते व्याव॑र्तन्त॒ य ए॒वं वि॒द्वान्प॑ञ्चरा॒त्रेण॒ यज॑ते॒ वि पा॒प्मना॒ भ्रातृ॑व्ये॒णाव॑र्तते॒ सार्व॑सेनिः शौचे॒यो॑ऽकामयत पशु॒मान्थ्स्या॒मिति॒ स ए॒तं प॑ञ्चरा॒त्रमाह॑र॒त्तेना॑यजत॒ ततो॒ वै स स॒हस्रं॑ प॒शून्प्राप्नो॒द्य ए॒वं वि॒द्वान्प॑ञ्चरा॒त्रेण॒ यज॑ते॒ प्र स॒हस्रं॑ प॒शूना᳚प्नोति बब॒रः प्रावा॑हणिरकामयत वा॒चः प्र॑वदि॒ता स्या॒मिति॒ स ए॒तं प॑ञ्चरा॒त्रमा ऽह॑र॒त्तेना॑यजत॒ ततो॒ वै स वा॒चः प्र॑वदि॒ताभ॑व॒द्य ए॒वं वि॒द्वान्प॑ञ्चरा॒त्रेण॒ यज॑ते प्रवदि॒तैव वा॒चो भ॑व॒त्यथो॑ एनं वा॒चस्पति॒रित्या॑हु॒रना᳚प्तश्चतूरा॒त्रोऽति॑रिक्तः षड्रा॒त्रोऽथ॒ वा ए॒ष सं॑ प्र॒ति य॒ज्ञो यत्प॑ञ्चरा॒त्रो य ए॒वं वि॒द्वान्प॑ञ्चरा॒त्रेण॒ यज॑ते सं प्र॒त्ये॑व य॒ज्ञेन॑ यजते पञ्चरा॒त्रो भ॑वति॒ पञ्च॒ वा ऋ॒तवः॑ संवथ्स॒र ऋ॒तुष्वे॒व सं॑वथ्स॒रे प्रति॑ तिष्ठ॒त्यथो॒ पञ्चा᳚क्षरा प॒ङ्क्तिः पाङ्क्तो॑ य॒ज्ञो य॒ज्ञमे॒वाव॑ रुंधे त्रि॒वृद॑ग्निष्टो॒मो भ॑वति॒ तेज॑ ए॒वाव॑ रुंधे पञ्चद॒शो भ॑वतीन्द्रि॒यमे॒वाव॑ रुंधे सप्तद॒शो भ॑वत्य॒न्नाद्य॒स्याव॑रुद्ध्या॒ अथो॒ प्रैव तेन॑ जायते पञ्चवि॒ꣳशो᳚ऽग्निष्टो॒मो भ॑वति प्र॒जाप॑ते॒राप्त्यै॑ महाव्र॒तवा॑न॒न्नाद्य॒स्याव॑रुद्ध्यै विश्व॒जिथ्सर्व॑पृष्ठोऽतिरा॒त्रो भ॑वति॒ सर्व॑स्या॒भिजि॑त्यै
The year was alone in the world. He desired, 'May I create the seasons.' He saw this five−night rite; he grasped it and sacrificed with it. Then indeed he created the seasons. He who− knowing thus offers the five−night rite gains offspring. The seasons being created were not distinguished. They saw this five−night