Taittiriya Samhita 6.1.1
Krishna Yajurveda · Kanda 6, Prapathaka 1 · Verse 6.1.1
Sanskrit Original
यो वा अय॑था देवतं॒ त्वाम॑ग्न॒ इन्द्र॑स्य॒ चित्तिं॒ यथा॒ वै वयो॒ वै यदाकू ॑ता॒द्यास्ते॑ अग्ने॒ मयि॑ गृह्णामि प्र॒जाप॑तिः॒ सो᳚ऽस्माथ् स्ते॒गान्, वाजं॑ कू ॒र्मान्, योक्त्रं ॑ मि॒त्रावरु॑णा॒विन्द्र॑स्य पू॒ष्ण ओज॑ ’शतिः ॥ आन॒न्दमह॑र॒ग्नेर्वा॒योः पन्थां॒ क्रमै॒र्द्यौस्ते॒ऽग्निः प॒शुरा॑सी॒थ्षड्विꣳ यो वा ए॒वाहु॑तिमभवन्प॒थिभि॑रव॒रुद्ध्या॑न॒न्दम॒ष्टौ प॑ञ्चा॒शत्॥ यो वा अय॑था देवतं॒ यद्य॑व॒ जिघ्र॑सि ॥ इति पञ्चमं काण्डं संपूर्णम्५॥ ॥ तैत्तिरीय-संहिता ॥ taittirIyasamhitA.pdf ॥ षष्ठं काण्डम्॥ ॥ श्री॒ गु॒रु॒भ्यो॒ न॒मः॒ ॥ हरिः ओ(४)म्॥ षष्ठकाण्डे प्रथमः प्रश्नः १ प्रा॒चीन॑वꣳशं करोति देवमनु॒ष्या दिशो॒ व्य॑भजन्त॒ प्राचीं᳚ दे॒वा द॑क्षि॒णा पि॒तरः॑ प्र॒तीचीं᳚ मनु॒ष्या॑ उदी॑चीꣳ रु॒द्रा यत्प्रा॒चीन॑वꣳ शं क॒रोति॑ देवलो॒कमे॒व तद्यज॑मान उ॒पाव॑र्तते॒ परि॑ श्रयत्य॒न्तर्हि॑तो॒ हि दे॑वलो॒को म॑नुष्यलो॒कान्नास्माल्लो॒काथ्स्वे॑तव्यमि॒वेत्या॑हुः॒ को हि तद्वेद॒ यद्य॒मुष्मि॑३ꣳल्लो॒केऽस्ति॑ वा॒ न वेति॑ दि॒क्ष्व॑तीका॒शान्क॑रो त्यु॒भयो᳚र्लो॒कयो॑र॒भिजि॑त्यै केशश्म॒श्रु व॑पते न॒खानि॒ यत्के ॑शश्म॒श्रु मृ॒तामे॒व त्वच॑ममे॒ध्याम॑प॒हत्य॑ य॒ज्ञियो॑ नि कृ ॑न्तते मृ॒ता वा ए॒षा त्वग॑मे॒ध्या भू॒त्वा मेध॒मुपै॒त्यंगि॑रसः सुव॒र्गं लो॒कं यन्तो॒ऽप्सु दी᳚क्षात॒पसी॒ प्रावे॑शयन्न॒प्सु स्ना॑ति सा॒क्षादे॒व दी᳚क्षात॒पसी॒ अव॑ रुंधे ती॒र्थे स्ना॑ति ती॒र्थे हि ते तां प्रावे॑शयन्ती॒र्थे स्ना॑ति ती॒र्थमे॒व स॑मा॒नानां᳚ भवत्य॒पो᳚ऽश्नात्यन्तर॒त ए॒व मेध्यो॑ भवति॒ वास॑सा दीक्षयति सौ॒म्यं वै क्षौमं॑ दे॒वत॑या॒ सोम॑मे॒ष दे॒वता॒मुपै॑ति॒ यो दीक्ष॑ते॒ सोम॑स्य त॒नूर॑सि त॒नुवं॑ मे पा॒हीत्या॑ह॒ स्वामे॒व दे॒वता॒मुपै॒त्यथो॑ आ॒शिष॑मे॒वैतामा शा᳚स्ते॒ऽग्नेस्तू॑षा॒धानं॑ वा॒योर्वा॑त॒पानं॑ पितृ॒णां नी॒विरोष॑धीनां प्रघा॒त आ॑दि॒त्यानां᳚ प्राचीनता॒नो विश्वे॑षां दे॒वाना॒मोतु॒र्नक्ष॑त्राणामतीका॒शास्तद्वा ए॒तथ्स॑र्वदेव॒त्यं॑ यद्वासो॒ यद्वास॑सा दी॒क्षय॑ति॒ सर्वा॑भिरे॒वैनं॑ दे॒वता॑भिर्दीक्षयति ब॒हिःप्रा॑णो॒ वै म॑नु॒ष्य॑स्तस्याश॑नं प्रा॒णो᳚ऽश्नाति॒ सप्रा॑ण ए॒व दी᳚क्षत॒ आशि॑तो भवति॒ यावा॑ने॒वास्य॑ प्रा॒णस्तेन॑ स॒ह मेध॒मुपै॑ति घृ॒तं दे॒वानां॒ मस्तु॑ पितृ॒णां निष्प॑क्वं मनु॒ष्या॑णां॒ तद्वा ए॒तथ्स॑र्वदेव॒त्यं॑ यन्नव॑नीतं॒ यन्नव॑नीतेनाभ्य॒ङ्क्ते सर्वा॑ ए॒व दे॒वताः᳚ प्रीणाति॒ प्रच्यु॑तो॒ वा ए॒षो᳚ऽस्माल्लो॒कादग॑तो देवलो॒कं यो दी᳚क्षि॒तो᳚ऽन्त॒रेव॒ नव॑नीतं॒ तस्मा॒न्नव॑नीतेना॒भ्य॑ङ्क्तेऽनुलो॒मं यजु॑षा॒ व्यावृ॑त्त्या॒ इन्द्रो॑ वृ॒त्रम॑ह॒न्तस्य॑ क॒नीनि॑का॒ परा॑ऽपत॒त्तदाञ्ज॑नमभव॒द्यदा॒ङ्क्ते चक्षु॑रे॒व भ्रातृ॑व्यस्य वृङ्क्ते॒ दक्षि॑णं॒ पूर्व॒माऽङ्क्ते ॑ स॒व्यꣳ हि पूर्वं॑ मनु॒ष्या॑ आ॒ञ्जते॒ न नि धा॑वते॒ नीव॒ हि म॑नु॒ष्या॑ धाव॑न्ते॒ पञ्च॒ कृत्व॒ आऽङ्क्ते॒ पञ्चा᳚क्षरा प॒ङ्क्तिः पाङ्क्तो॑ य॒ज्ञो य॒ज्ञमे॒वाव॑ रुंधे॒ परि॑मित॒माऽङ्क्तेऽप॑रिमित॒ꣳ हि म॑नु॒ष्या॑ आ॒ञ्जते॒ सतू॑ल॒याऽऽङ्क्तेऽप॑तूलया॒ हि म॑नु॒ष्या॑ आ॒ञ्जते॒ व्यावृ॑त्त्यै॒ यदप॑तूलयांजी॒त वज्र॑ इव स्या॒थ्सतू॑ल॒याङ्क्ते ॑ मित्र॒त्वाये न्द्रो॑ वृ॒त्रम॑ह॒न्थ्सो᳚ऽ२॒पो᳚ऽ२॒भ्य॑म्रियत॒ तासां॒ यन्मेध्यं॑ य॒ज्ञिय॒ꣳ सदे॑व॒मासी॒त्तद॒पोद॑क्राम॒त्ते द॒र्भा अ॑भव॒न्॒ यद्द॑र्भ पुंजी॒लैः प॒वय॑ति॒ या ए॒व मेध्या॑ य॒ज्ञियाः॒ सदे॑वा॒ आप॒स्ताभि॑रे॒वैनं॑ पवयति॒ द्वाभ्यां᳚ पवयत्यहोरा॒त्राभ्या॑मे॒वैनं॑ पवयति त्रि॒भिः प॑वयति॒ त्रय॑ इ॒मे लो॒का ए॒भिरे॒वैनं॑ लो॒कैः प॑वयति प॒ञ्चभिः॑ पवयति॒ पञ्चा᳚क्षरा प॒ङ्क्तिः पाङ्क्तो॑ य॒ज्ञो य॒ज्ञायै॒वैनं॑ पवयति ष॒ड्भिः प॑वयति॒ षड्वा ऋ॒तव॑ ऋ॒तुभि॑रे॒वैनं॑ ’सि॒ छन्दो॑भिरे॒वैनं॑ पवयति न॒वभिः॑ पवयति॒ नव॒ वै पवयति स॒प्तभिः॑ पवयति स॒प्त छन्दाꣳ पुरु॑षे प्रा॒णाः सप्रा॑णमे॒वैनं॑ पवय॒त्येक॑विꣳशत्या पवयति॒ दश॒ हस्त्या॑ अ॒ङ्गुल॑यो॒ दश॒ पद्या॑ आ॒त्मैक॑वि॒ꣳशो यावा॑ने॒व पुरु॑ष॒स्तमप॑रिवर्गं पवयति चि॒त्पति॑स्त्वा पुना॒त्वित्या॑ह॒ मनो॒ वै चि॒त्पति॒र्मन॑सै॒वैनं॑ पवयति वा॒क्पति॑स्त्वा पुना॒त्वित्या॑ह वा॒चैवैनं॑ पवयति दे॒वस्त्वा॑ सवि॒ता पु॑ना॒त्वित्या॑ह सवि॒तृप्र॑सूत ए॒वैनं॑ पवयति॒ तस्य॑ ते पवित्रपते प॒वित्रे॑ण॒ यस्मै॒ कं पु॒ने तच्छ॑केय॒मित्या॑हा॒शिष॑मे॒वैतामा शा᳚स्ते
He makes a hall with beams pointing east. The gods and men divided the quarters, the gods (obtained) the eastern, the Pitrs the southern, men the western, the Rudras the northern. In that he makes a hall with beams pointing east, the sacrificer approaches the world of the gods. He covers it over, for the world of the gods is hidden from the world of men. 'It is not easy', they say, 'to go from this world; for who knows if he is in yonder world or not.' He makes at the corners apertures [1], for the winning of both worlds. He shaves his hair and beard, he trims his nails. The hair and the beard are dead and impure skin, and by thus destroying the dead and impure skin he becomes fit for the sacrifice and approaches the sacrifice. The Angirases going to the world of heaven placed in the waters consecration and penance. He bathes in the waters; verily visibly he secures consecration and penance. He bathes at a ford, for at a ford did they place (consecration and penance); he bathes at a ford [2]; verily he becomes a ford for his fellows. He sips water; verily he becomes