Taittiriya Samhita 4.1.2
Krishna Yajurveda · Kanda 4, Prapathaka 1 · Verse 4.1.2
Sanskrit Original
इ॒माम॑गृभ्णन्रश॒नामृ॒तस्य॒ पूर्व॒ आयु॑षि वि॒दथे॑षु क॒व्या । तया॑ दे॒वाः सु॒तमा ब॑भूवुरृ॒तस्य॒ साम᳚न्थ्स॒रमा॒रप॑न्ती ॥ प्रतू᳚र्तं वाजि॒न्ना द्र॑व॒ वरि॑ष्ठा॒मनु॑ सं॒वत᳚म्। दि॒वि ते॒ जन्म॑ पर॒मम॒न्तरि॑क्षे॒ नाभिः॑ पृथि॒व्यामधि॒ योनिः॑ ॥ यु॒ञ्जाथा॒ꣳ रास॑भं यु॒वम॒स्मिन् यामे॑ वृषण्वसू । अ॒ग्निं भर॑न्तमस्म॒युम्॥ योगे॑योगे त॒वस्त॑रं॒ वाजे॑वाजे हवामहे । सखा॑य॒ इन्द्र॑मू॒तये᳚ ॥ प्र॒तूर्व॒ न्नेह्य॑व॒क्राम॒न्नश॑स्ती रु॒द्रस्य॒ गाण॑पत्यान्मयो॒भूरेहि॑ । उ॒र्व॑न्तरि॑क्ष॒मन्वि॑हि स्व॒स्तिग॑व्यूति॒रभ॑यानि कृ ॒ण्वन् ॥ पू॒ष्णा स॒युजा॑ पु॑री॒ष्य॑मङ्गिर॒स्वदच्छे॑मो॒ऽग्निं स॒ह । पृ॒थि॒व्याः स॒धस्था॑द॒ग्निं पु॑री॒ष्य॑मङ्गिर॒स्वदच्छे᳚ह्य॒ग्निं पु॑री॒ष्य॑मङ्गिर॒स्वद्भ॑रिष्यामो॒ऽग्निं पु॑री॒ष्य॑मङ्गिर॒स्वद्भ॑रामः अन्व॒ग्निरु॒षसा॒मग्र॑मख्य॒दन्वहा॑नि प्रथ॒मो जा॒तवे॑दाः । अनु॒ सूर्य॑स्य ॥ पुरु॒त्रा च॑ र॒श्मीननु॒ द्यावा॑पृथि॒वी आ त॑तान ॥ आ॒गत्य॑ वा॒ज्यध्व॑नः॒ सर्वा॒ मृधो॒ वि धू॑नु ते । अ॒ग्निꣳ स॒धस्थे॑ मह॒ति चक्षु॑षा॒ नि चि॑कीषते ॥ आ॒क्रम्य॑ वाजिन्पृथि॒वीम॒ग्निमि॑च्छ रु॒चा त्वम्। भूम्या॑ वृ॒त्वाय॑ नो ब्रूहि॒ यतः॒ खना॑म॒ तं व॒यम्॥ द्यौस्ते॑ पृ॒ष्ठं पृ॑थि॒वी स॒धस्थ॑मा॒त्मान्तरि॑क्षꣳ समु॒द्रस्ते॒ योनिः॑ । वि॒ख्याय॒ चक्षु॑षा॒ त्वम॒भि ति॑ष्ठ पृतन्य॒तः ॥ उत्क्रा॑म मह॒ते सौभ॑गाया॒स्मादा॒स्थाना᳚द् द्रविणो॒दा वा॑जिन्। व॒य२ꣳ स्या॑म सुम॒तौ पृ॑थि॒व्या अ॒ग्निं ख॑नि॒ष्यन्त॑ उ॒पस्थे॑ अस्याः ॥ उद॑क्रमीद्द्रविणो॒दा वा॒ज्यर्वाकः॒ स लो॒कꣳ सुकृ ॑तं पृथि॒व्याः । ततः॑ खनेम सु॒प्रती॑कम॒ग्निꣳ सुवो॒ रुहा॑णा॒ अधि॒ नाक॑ उत्त॒मे ॥ अ॒पो दे॒वीरुप॑ सृज॒ मधु॑मतीरय॒क्ष्माय॑ प्र॒जाभ्यः॑ । तासा॒ग्॒ स्थाना॒दुज्जि॑हता॒मोष॑धयः सुपिप्प॒लाः ॥ जिघ॑र्म्य॒ ’ रभ॒सं ग्निं मन॑सा घृ॒तेन॑ प्रति॒क्ष्यन्तं॒ भुव॑नानि॒ विश्वा᳚ । पृ॒थुं ति॑र॒श्चा वय॑सा बृ॒हन्तं॒ व्यचि॑ष्ठ॒मन्नꣳ विदा॑नम्॥ आ त्वा॑ जिघर्मि॒ वच॑सा घृ॒तेना॑र॒क्षसा॒ मन॑सा॒ तज्जु॑षस्व । मर्य॑श्रीः स्पृह॒यद्व॑र्णो अ॒ग्निर्नाभि॒मृशे॑ त॒नुवा॒ जर्हृ॑षाणः ॥ परि॒ वाज॑पतिः क॒विर॒ग्निर्ह॒व्यान्य॑क्रमीत्। दध॒द्रत्ना॑नि दा॒शुषे᳚ ’ सहस्य धीमहि । धृ॒षद्व॑र्णं दि॒वेदि॑वे भे॒त्तारं॑ भङ्गु॒राव॑तः ॥ ॥ परि॑ त्वाग्ने॒ पुरं॑ व॒यं विप्रꣳ त्वम॑ग्ने॒ द्युभि॒स्त्वमा॑शुशु॒क्षणि॒स्त्वम॒द्भ्यस्त्वमश्म॑न॒स्परि॑ । त्वं वने᳚भ्य॒स्त्वमोष॑धीभ्य॒स्त्वं नृ॒णां नृ॑पते जायसे॒ शुचिः॑
No translation available yet.