Taittiriya Samhita 4.1.10
Krishna Yajurveda · Kanda 4, Prapathaka 1 · Verse 4.1.10
Sanskrit Original
यद॑ग्ने॒ यानि॒ कानि॒ चाऽते॒ दारू॑णि द॒ध्मसि॑ । तद॑स्तु॒ तुभ्य॒मिद्घृ॒तं तज्जु॑षस्व यविष्ठ्य ॥ ’ रात्रि॒मप्र॑यावं॒ यदत्त्यु॑प॒जिह्वि॑का॒ यद्व॒म्रो अ॑ति॒सर्प॑ति । सर्वं॒ तद॑स्तु ते घृ॒तं तज्जु॑षस्व यविष्ठ्य ॥ रात्रिꣳ भर॒न्तोऽश्वा॑येव॒ तिष्ठ॑ते घा॒सम॑स्मै । रा॒यस्पोषे॑ण॒ समि॒षा मद॒न्तोऽग्ने॒ मा ते॒ प्रति॑वेशा रिषाम ॥ नाभा॑ पृथि॒व्याः स॑मिधा॒नम॒ग्निꣳ रा॒यस्पोषा॑य बृह॒ते ह॑वामहे । इ॒रं॒म॒दं बृ॒हदु॑क्थं॒ यज॑त्रं॒ जेता॑रम॒ग्निं पृत॑नासु सास॒हिम्॥ याः सेना॑ अ॒भीत्व॑रीराव्या॒धिनी॒रुग॑णा उ॒त । ये स्ते॒ना ये च॒ तस्क॑रा॒स्ताग्स्ते॑ अ॒ग्नेऽपि॑ दधाम्या॒स्ये᳚ ॥ द२ꣳष्ट्रा᳚भ्यां म॒लिम्लू॒ञ्जंभ्यै॒स्तस्क॑राꣳ उ॒त । हनू᳚भ्याग्स्ते॒नान्भ॒गव॒स्ताग्स्त्वं खा॑द॒ सुखा॑दितान् ॥ ये जने॑षु म॒लिम्ल॑वः स्ते॒नास॒स्तस्क॑रा॒ वने᳚ । ये कक्षे᳚ष्वघा॒यव॒स्ताग्स्ते॑ दधामि॒ जंभ॑योः ॥ यो अ॒स्मभ्य॑मराती॒याद्यश्च॑ नो॒ द्वेष॑ ते॒ जनः॑ । निन्दा॒द्यो अ॒स्मान्दिप्सा᳚च्च॒ सर्वं॒ तं म॑स्म॒सा कु ॑रु ॥ सꣳशि॑तं मे॒ ब्रह्म॒ सꣳशि॑तं वी॒र्यं॑ बल᳚म्। सꣳशि॑तं क्ष॒त्रं जि॒ष्णु यस्या॒हमस्मि॑ पु॒रोहि॑तः ॥ उदे॑षां बा॒हू अ॑तिर॒मुद्वर्च॒ उदू॒ बल᳚म्। क्षि॒णोमि॒ ब्रह्म॑णा॒ऽमित्रा॒नुन्न॑यामि॒ स्वाꣳ अ॒हम् । दृ॒शा॒नो रु॒क्म उ॒र्व्या व्य॑द्यौद्दु॒र्मर्ष॒मायुः॑ अभव॒द्वयो॑भि॒र्यदे॑नं॒ द्यौरज॑नयथ्सु॒रेताः᳚ ॥ श्रि॒ये रु॑चा॒नः । अ॒ग्निर॒मृतो॑ विश्वा॑ रू॒पाणि॒ प्रति॑ मुञ्चते क॒विः प्रासा॑वीद्भ॒द्रं द्वि॒पदे॒ चतु॑ष्पदे । वि नाक॑मख्यथ्सवि॒ता वरे॒ण्योऽनु॑ ’ समी॒ची । द्यावा॒ प्र॒याण॑मु॒षसो॒ वि रा॑जति ॥ नक्तो॒षासा॒ सम॑नसा॒ विरू॑पे धा॒पये॑ते॒ शिशु॒मेकꣳ क्षामा॑ रु॒क्मो अ॒न्तर्वि भा॑ति दे॒वा अ॒ग्निं धा॑रयन्द्रविणो॒दाः ॥ सु॒प॒र्णो॑ऽसि ग॒रुत्मा᳚न्त्रि॒वृत्ते॒ शिरो॑ गाय॒त्रं चक्षु॒ स्तोम॑ आ॒त्मा साम॑ ते त॒नूर्वा॑मदे॒व्यं बृ॑हद्रथन्त॒रे प॒क्षौ य॑ज्ञाय॒ज्ञियं॒ पुच्छं॒ छन्दा॒ग्॒स्यङ्गा॑नि॒ ’षि॒ नाम॑ । सु॒प॒र्णो॑ऽसि ग॒रुत्मा॒न्दिवं॑ गच्छ॒ सुवः॑ पत
a Whatever logs we place In thee, O Agni, Be that ghee for thee; Accept it, O youngest one. b What the insect eateth, What the ant climbeth over,