Taittiriya Samhita 3.5.8
Krishna Yajurveda · Kanda 3, Prapathaka 5 · Verse 3.5.8
krishna-yajurvedataittiriya-samhitakanda-3prapathaka-5
Sanskrit Original
उ॒प॒या॒मगृ॑हीतोऽसि प्र॒जाप॑तये त्वा॒ ज्योति॑ष्मते॒ ज्योति॑ष्मन्तं गृह्णामि॒ दक्षा॑य दक्ष॒वृधे॑ रा॒तं दे॒वेभ्यो᳚ऽग्निजि॒ह्वेभ्य॑स्त्वर्ता॒युभ्य॒ इन्द्र॑ज्येष्ठेभ्यो॒ वरु॑णराजभ्यो॒ वाता॑पिभ्यः प॒र्जन्या᳚त्मभ्यो दि॒वे त्वा॒न्तरि॑क्षाय त्वा पृथि॒व्यै त्वापे᳚न्द्र द्विष॒तो मनोऽप॒ जिज्या॑सतो ज॒ह्यप॒ यो नो॑ऽराती॒यति॒ तं ज॑हि प्रा॒णाय॑ त्वापा॒नाय॑ त्वा व्या॒नाय॑ त्वा स॒ते त्वास॑ते त्वा॒द्भ्यस्त्वौष॑धीभ्यो॒ विश्वे᳚भ्यस्त्वा भू॒तेभ्यो॒ यतः॑ प्र॒जा अक्खि॑द्रा॒ अजा॑यन्त॒ तस्मै᳚ त्वा प्र॒जाप॑तये विभू॒दाव्न्ने॒ ज्योति॑ष्मते॒ ज्योति॑ष्मन्तं जुहोमि
No translation available yet.