Taittiriya Samhita 3.5.4
Krishna Yajurveda · Kanda 3, Prapathaka 5 · Verse 3.5.4
Sanskrit Original
ये दे॒वा य॑ज्ञ॒हनो॑ यज्ञ॒मुषः॑ पृथि॒व्यामध्यास॑ते । अ॒ग्निर्मा॒ तेभ्यो॑ रक्षतु॒ गच्छे॑म सु॒कृतो॑ व॒यम् ॥ आग॑न्म मित्रावरुणा वरेण्या॒ रात्री॑णां भा॒गो यु॒वयो॒ऱ्यो अस्ति॑ । नाकं ॑ गृह्णा॒नाः सु॑कृ ॒तस्य॑ लो॒के तृ॒तीये॑ पृ॒ष्ठे अधि॑ रोच॒ने दि॒वः ॥ ये दे॒वा य॑ज्ञ॒हनो॑ यज्ञ॒मुषो॒ऽन्तरि॒क्षेऽध्यास॑ते । वा॒युर्मा॒ तेभ्यो॑ रक्षतु॒ गच्छे॑म सु॒कृतो॑ व॒यम्॥ यास्ते॒ रात्रीः᳚ सवित र्देव॒यानी॑रन्त॒रा द्यावा॑पृथि॒वी वि॒यन्ति॑ । गृ॒हैश्च॒ सर्वैः᳚ प्र॒जया॒न्वग्रे॒ सुवो॒ रुहा॑णास्तरता॒ ’सि ॥ ये दे॒वा य॑ज्ञ॒हनो॑ यज्ञ॒मुषो॑ दि॒व्यध्यास॑ते । सूऱ्यो॑ मा॒ तेभ्यो॑ रक्षतु॒ गच्छे॑म सु॒कृतो॑ रजाꣳ taittirIyasamhitA.pdf व॒यम्॥ येनेन्द्रा॑य स॒मभ॑रः॒ पयाग्॑स्युत्त॒मे न॑ ह॒विषा॑ जातवेदः । तेना᳚ग्ने॒ त्वमु॒त व॑र्धये॒मꣳ स॑जा॒ताना॒ग्॒ श्रैष्ठ्य॒ आ धे᳚ह्येनम्॥ य॒ज्ञ॒हनो॒ वै दे॒वा य॑ज्ञ॒मुषः॑ सन्ति॒ त ए॒षु लो॒केष्वा॑सत आ॒ददा॑ना विमथ्ना॒ना यो ददा॑ति॒ यो य॑जते॒ तस्य॑ । ये दे॒वा य॑ज्ञ॒हनः॑ पृथि॒व्यामध्यास॑ते॒ येअ॒न्तरि॑क्षे॒ येदि॒वीत्या॑हे॒माने॒व लो॒काग्स्ती॒र्त्वा सगृ॑हः॒ सप॑शुः सुव॒र्गं लो॒कमे॒त्यप॒ वै सोमे॑नेजा॒नाद्दे॒वता᳚श्च य॒ज्ञश्च॑ क्रामन्त्याग्ने॒यं पञ्च॑कपालमुदवसा॒नीयं॒ निर्व॑पेद॒ग्निः सर्वा॑ दे॒वताः॒ पाङ्क्तो॑ य॒ज्ञो दे॒वता᳚श्चै॒व य॒ज्ञं चाव॑ रुंधे गाय॒त्रो वा अ॒ग्निर्गा॑य॒त्रछ॑न्दा॒स्तं छंद॑सा॒ व्य॑र्धयति॒ यत्पञ्च॑कपालं क॒रोत्य॒ष्टाक॑पालः का॒ऱ्यो᳚ऽष्टाक्ष॑रा गाय॒त्री गा॑य॒त्रो᳚ऽग्निर्गा॑य॒त्र छ॑न्दाः॒ स्वेनै॒वैनं॒ छंद॑सा॒ सम॑र्धयति प॒ङ्क्त्यौ॑ याज्यानुवा॒क्ये॑ भवतः॒ पाङ्क्तो॑ य॒ज्ञस्तेनै॒व य॒ज्ञान्नैति॑
a The gods, destroying the sacrifice, stealing the sacrifice, That are seated on earth, May Agni protect me from them; May we go to those that do good deeds. b We have come, O noble ones, Mitra and Varuna, To the share of the nights that is yours,