Taittiriya Samhita 3.2.1
Krishna Yajurveda · Kanda 3, Prapathaka 2 · Verse 3.2.1
Sanskrit Original
वी॒र इषꣳ १। ११॥ प्र॒जाप॑तिरकामयतै॒ष ते॑ गाय॒त्रो य॒ज्ञं वै प्र॒जाप॑ते॒र्जाय॑मानाः प्राजाप॒त्या यो वा अय॑था देवतमि॒ष्टर्गो॑ निग्रा॒भ्या᳚स्थ्स यो वै दे॒वाञ्जुष्टो॒ऽग्निना॑ र॒यिमेका॑दश ॥ प्र॒जाप॑तिरकामयत प्र॒जाप॑ते॒र्जाय॑माना॒ व्याय॑च्छंते॒ मह्य॑मि॒मान्मा॒या मा॒यिनां॒ द्विच॑त्वारिꣳशत् ॥ प्र॒जाप॑तिरकामयता॒ग्निꣳ स॑मु॒द्रवा॑ससम्॥ तृतीयकाण्डे द्वितीयः प्रश्नः २ यो वै पव॑मानानामन्वारो॒हान्, वि॒द्वान्, यज॒तेऽनु॒ पव॑माना॒ना रो॑हति॒ न पव॑माने॒भ्योऽव॑च्छिद्यते श्ये॒नो॑ऽसि गाय॒त्र छ॑न्दा॒ अनु॒ त्वार॑भे स्व॒स्ति मा॒ सं पा॑रय सुप॒र्णो॑ऽसि त्रि॒ष्टुप्छ॑न्दा॒ अनु॒ त्वार॑भे स्व॒स्ति मा॒ सं पा॑रय॒ सघा॑सि॒ जग॑ती छन्दा॒ अनु॒ त्वार॑भे स्व॒स्ति मा॒ सं पा॑र॒येत्या॑है॒ते वै पव॑मानानामन्वारो॒हास्तान्, य ए॒वं वि॒द्वान्, यज॒तेऽनु॒ पव॑माना॒ना रो॑हति॒ न पव॑माने॒भ्योऽव॑ च्छिद्यते॒ यो वै पव॑मानस्य॒ सन्त॑तिं॒ वेद॒ सर्व॒मायु॑रेति॒ न पु॒रायु॑षः॒ प्र मी॑यते पशु॒मान्भ॑वति वि॒न्दते᳚ प्र॒जां पव॑मानस्य॒ ग्रहा॑ गृह्य॒न्तेऽथ॒ वा अ॑स्यै॒तेऽगृ॑हीता द्रोणकल॒श आ॑धव॒नीयः॑ पूत॒भृत्तान्, यदगृ॑हीत्वोपाकु ॒र्यात्पव॑मानं॒ वि च्छि॑न्द्या॒त्तं वि॒च्छिद्य॑मानमध्व॒र्योः प्रा॒णोऽनु॒ वि च्छि॑द्येतोपया॒मगृ॑हीतोऽसि प्र॒जाप॑तये॒ त्वेति॑ द्रोणकल॒शम॒भि मृ॑शे॒दिन्द्रा॑य॒ त्वेत्या॑धव॒नीयं॒ विश्वे᳚भ्यस्त्वा दे॒वेभ्य॒ इति॑ पूत॒भृतं॒ पव॑मानमे॒व तथ्सं त॑नोति॒ सर्व॒मायु॑रेति॒ न पु॒रायु॑षः॒ प्र मी॑यते पशु॒मान्भ॑वति वि॒न्दते᳚ प्र॒जाम्
No translation available yet.