🚧This site is under construction — data is currently being added and may be incomplete or change.🚧
🕉

Sanatan Dharma

सनातन धर्म — Hindu Scripture Knowledge Base

Taittiriya Samhita 3.1.4

Krishna Yajurveda · Kanda 3, Prapathaka 1 · Verse 3.1.4

krishna-yajurvedataittiriya-samhitakanda-3prapathaka-1

Sanskrit Original

भू॒त्वा तत॒ष्षड्विꣳ प्र॒जाप॑ते॒र्जाय॑मानाः प्र॒जा जा॒ताश्च॒ या इ॒माः । तस्मै॒ प्रति॒ प्र वे॑दय चिकि॒त्वाꣳ अनु॑ मन्यताम् taittirIyasamhitA.pdf ॥ इ॒मं प॒शुं प॑शुपते ते अ॒द्य ब॒ध्नाम्य॑ग्ने सुकृ ॒तस्य॒ मध्ये᳚ । अनु॑ मन्यस्व सु॒यजा॑ यजाम॒ जुष्टं॑ दे॒वाना॑मि॒दम॑स्तु ह॒व्यम्॥ प्र॒जा॒नन्तः॒ प्रति॑ गृह्णन्ति॒ पूर्वे᳚ प्रा॒णमङ्गे᳚भ्यः॒ पर्या॒चर॑न्तम्। सु॒व॒र्गं या॑हि प॒थिभि॑र्देव॒यानै॒रोष॑धीषु॒ प्रति॑ तिष्ठा॒ शरी॑रैः ॥ येषा॒मीशे॑ पशु॒पतिः॑ पशू॒नां चतु॑ष्पदामु॒त च॑ द्वि॒पदा᳚म् । निष्क्री॑तो॒ऽयं य॒ज्ञियं॑ भा॒गमे॑तु रा॒यस्पोषा॒ यज॑मानस्य सन्तु॥ ये ब॒ध्यमा॑न॒मनु॑ ब॒ध्यमा॑ना अ॒भ्यैक्ष॑न्त॒ मन॑सा॒ चक्षु॑षा च । अ॒ग्निस्ताꣳ अग्रे॒ प्र मु॑मोक्तु दे॒वः प्र॒जाप॑तिः प्र॒जया॑ संविदा॒नः ॥ य आ॑र॒ण्याः प॒शवो॑ वि॒श्वरू॑पा॒ विरू॑पाः॒ सन्तो॑ बहु॒धैक॑रूपाः । वा॒युस्ताꣳ अग्रे॒ प्र मु॑मोक्तु दे॒वः प्र॒जाप॑तिः प्र॒जया॑ संविदा॒नः ॥ प्र॒मु॒ञ्चमा॑ना॒ भुव॑नस्य॒ रेतो॑ गा॒तुं ध॑त्त॒ यज॑मानाय देवाः । उ॒पाकृ ॑तꣳ शशमा॒नं यदस्था᳚ज्जी॒वं दे॒वाना॒मप्ये॑तु॒ पाथः॑ ॥ नाना᳚ प्रा॒णो यज॑मानस्य प॒शुना॑ य॒ज्ञो दे॒वेभिः॑ स॒ह दे॑व॒यानः॑ । जी॒वं दे॒वाना॒मप्ये॑तु॒ पाथः॑ स॒त्याः स॑न्तु॒ यज॑मानस्य॒ कामाः᳚ ॥ यत्प॒शुर्मा॒युमकृ ॒तोरो॑ वा प॒द्भिरा॑ह॒ते । अ॒ग्निर्मा॒ तस्मा॒देन॑सो॒ विश्वा᳚न्मुञ्च॒त्वꣳह॑सः ॥ शमि॑तार उ॒पेत॑न य॒ज्ञं दे॒वेभि॑रिन्वि॒तम्। पाशा᳚त्प॒शुं प्र मु॑ञ्चत ब॒न्धाद्य॒ज्ञप॑तिं॒ परि॑ ॥ अदि॑तिः॒ पाशं॒ प्र मु॑मोक्त्वे॒तं नमः॑ प॒शुभ्यः॑ पशु॒पत॑ये करोमि । अ॒रा॒ती॒यन्त॒मध॑रं कृणोमि॒ यं द्वि॒ष्मस्तस्मि॒न्प्रति॑ मुञ्चामि॒ पाश᳚म्॥ ’ श‍ृ॒तं क॒र्तार॑मु॒त य॒ज्ञियं॑ च । अग्ने॒ सद॑क्षः॒ सत॑नु॒र्हि भू॒त्वाथ॑ ह॒व्या त्वामु॒ ते द॑धिरे हव्य॒वाहꣳ जा॑तवेदो जुषस्व ॥ जात॑वेदो व॒पया॑ गच्छ दे॒वान्त्वꣳ हि होता᳚ प्रथ॒मो ब॒भूथ॑ । घृ॒तेन॒ त्वं त॒नुवो॑ वर्धयस्व॒ स्वाहा॑कृतꣳ ह॒विर॑दन्तु दे॒वाः ॥ स्वाहा॑ दे॒वेभ्यो॑ दे॒वेभ्यः॒ स्वाहा᳚

🤖 AI GeneratedAI Generated

a The offspring, being born of Prajapati And those that have been born,