Taittiriya Samhita 3.1.11
Krishna Yajurveda · Kanda 3, Prapathaka 1 · Verse 3.1.11
Sanskrit Original
अ॒ग्निना॑ र॒यिम॑श्नव॒त्पोष॑मे॒व दि॒वे दि॑वे । य॒शसं॑ वी॒रव॑त्तमम्॥ ’ अ॒ग्नेऽवि॑माꣳ अ॒श्वी य॒ज्ञो नृ॒वथ्स॑खा॒ गोमाꣳ सद॒मिद॑प्रमृ॒ष्यः । इडा॑वाꣳ ए॒षो अ॑सुर प्र॒जावा᳚न्दी॒र्घो र॒यिः पृ॑थुबु॒ध्नः स॒भावान्॑ ॥ आ प्या॑यस्व॒ सं ते᳚ ॥ इ॒ह त्वष्टा॑रमग्रि॒यं वि॒श्वरू॑प॒मुप॑ ह्व ये । अ॒स्माक॑मस्तु॒ केव॑लः ॥ तन्न॑स्तु॒रीप॒मध॑ पोषयि॒त्नु देव॑ त्वष्ट॒र्वि र॑रा॒णः स्य॑स्व । यतो॑ taittirIyasamhitA.pdf वी॒रः क॑र्म॒ण्यः॑ सु॒दक्षो॑ यु॒क्तग्रा॑वा॒ जाय॑ते दे॒वका॑मः ॥ शि॒वस्त्व॑ष्टरि॒हा ग॑हि वि॒भुः पोष॑ उ॒त त्मना᳚ । य॒ज्ञे य॑ज्ञे न॒ उद॑व ॥ पि॒शंग॑रूपः सु॒भरो॑ वयो॒धाः श्रु॒ष्टी वी॒रो जा॑यते दे॒वका॑मः । प्र॒जां त्वष्टा॒ विष्य॑तु॒ नाभि॑म॒स्मे अथा॑ दे॒वाना॒मप्ये॑तु॒ पाथः॑ ॥ प्रणो॑ दे॒व्या नो॑ दि॒वः ॥ पी॒पि॒वाꣳ स॒ꣳ सर॑स्वतः॒ स्तनं॒ यो वि॒श्वद॑र्शतः । धु॒क्षी॒महि॑ प्र॒जामिष᳚म्॥ ये ते॑ सरस्व ऊ॒र्मयो॒ मधु॑मन्तो घृत॒श्चुतः॑ । तेषां᳚ ते सु॒म्नमी॑महे ॥ यस्य॑ व्र॒तं प॒शवो॒ यन्ति॒ सर्वे॒ यस्य॑ व्र॒तमु॑प॒तिष्ठ॑न्त॒ आपः॑ । यस्य॑ व्र॒ते पु॑ष्टि॒पति॒र्निवि॑ष्ट॒स्तꣳ सर॑स्वन्त॒मव॑से हुवेम ॥ दि॒व्यꣳ सु॑प॒र्णं व॑य॒सं बृ॒हन्त॑म॒पां गर्भं॑ वृष॒भमोष॑धीनाम् । अ॒भी॒प॒तो वृ॒ष्ट्या त॒र्पय॑न्तं॒ तꣳ सर॑स्वन्त॒मव॑से हुवेम ॥ सिनी॑वालि॒ पृथु॑ष्टुके ॒ या दे॒वाना॒मसि॒ स्वसा᳚ । जु॒षस्व॑ ह॒व्य माहु॑तं प्र॒जां दे॑वि दिदिड्ढि नः ॥ या सु॑पा॒णिः स्व॑ङ्गु॒रिः सु॒षूमा॑ बहु॒सूव॑री । तस्यै॑ वि॒श्पत्नि॑यै ह॒विः सि॑नीवा॒ल्यै जु॑होतन ॥ इन्द्रं॑ वो वि॒श्वत॒स्परीन्द्रं॒ नरः॑ ॥ असि॑तवर्णा॒ हर॑यः सुप॒र्णा मिहो॒ वसा॑ना॒ दिव॒मुत्प॑तन्ति । त आव॑वृत्र॒न्थ्सद॑नानि कृ ॒त्वादित्पृ॑थि॒वी घृ॒तैर्व्यु॑द्यते ॥ हिर॑ण्यकेशो॒ रज॑सो विसा॒रेऽहि॒र्धुनि॒र्वात॑ इव॒ ध्रजी॑मान्। शुचि॑भ्राजा उ॒षसो॒ नवे॑दा॒ यश॑स्वतीरप॒स्युवो॒ न स॒त्याः ॥ आ ते॑ सुप॒र्णा अ॑मिनन्त॒ एवैः᳚ कृ ॒ष्णो नो॑नाव वृष॒भो यदी॒दम्। शि॒वाभि॒र्न स्मय॑मानाभि॒रागा॒त्पत॑न्ति॒ मिहः॑ स्त॒नय॑न्त्य॒भ्रा ॥ वा॒श्रेव॑ वि॒द्युन्मि॑माति व॒थ्सं न मा॒ता सि॑षक्ति । यदे॑षां वृ॒ष्टिरस॑र्जि ॥ पर्व॑तश्चि॒न्महि॑ वृ॒द्धो बि॑भाय दि॒वश्चि॒थ्सानु॑ रेजत स्व॒ने वः॑ । यत्क्रीड॑थ मरुत ऋष्टि॒मन्त॒ आप॑ इव स॒ध्रिय॑ञ्चो धवध्वे ॥ अ॒भि क्र॑न्द स्त॒नय॒ गर्भ॒मा धा॑ उद॒न्वता॒ परि॑ दीया॒ रथे॑न । दृति॒ꣳ सु क॑र्ष॒ विषि॑तं॒ न्य॑ञ्चꣳ स॒मा भ॑वन्तू॒द्वता॑ निपा॒दाः ॥ त्वं त्या चि॒दच्यु॒ताग्ने॑ प॒शुर्न यव॑से । धामा॑ह॒ यत्ते॑ अजर॒ वना॑ वृ॒श्चन्ति॒ शिक्व॑सः ॥ अग्ने॒ भूरी॑णि॒ तव॑ जातवेदो॒ देव॑ स्वधावो॒ऽमृत॑स्य॒ धाम॑ । याश्च॑ मा॒या मा॒यिनां᳚ विश्वमिन्व॒ त्वे पू॒र्वीः सं॑द॒धुः पृ॑ष्टबन्धो ॥ दि॒वो नो॑ वृ॒ष्टिं म॑रुतो ररीध्वं॒ प्र पि॑न्वत॒ वृष्णो॒ अश्व॑स्य॒ धाराः᳚ । अ॒र्वाङे ॒तेन॑ स्तनयि॒त्नुनेह्य॒पो नि॑षि॒ञ्चन्नसु॑रः पि॒ता नः॑ ॥ पिन्व॑न्त्य॒पो म॒रुतः॑ सु॒दान॑वः॒ पयो॑ घृ॒तव॑द्वि॒दथे᳚ष्वा॒भुवः॑ । अत्यं॒ न मि॒हे वि न॑यन्ति वा॒जिन॒मुथ्सं॑ दुहन्ति स्त॒नय॑न्त॒मक्षि॑तम्॥ उ॒द॒प्रुतो॑ मरुत॒स्ताꣳ इ॑यर्त॒ वृष्टिं॒ ये विश्वे॑ म॒रुतो॑ जु॒नन्ति॑ । क्रोशा॑ति॒ गर्दा॑ क॒न्ये॑व तु॒न्ना पेरुं ॑ तुञ्जा॒ना पत्ये॑व जा॒या ॥ घृ॒तेन॒ द्यावा॑पृथि॒वी मधु॑ना॒ समु॑क्षत॒ पय॑स्वतीः कृणु॒ताप॒ ओष॑धीः । ऊर्जं॑ च॒ तत्र॑ सुम॒तिं च॑ पिन्वथ॒ यत्रा॑ नरो मरुतः सि॒ञ्चथा॒ मधु॑ ॥ उदु॒ त्यं चि॒त्रम्॥ औ॒र्व॒भृ॒गु॒वच्छुचि॑मप्नवान॒वदा हु॑वे । अ॒ग्निꣳ स॑मु॒द्रवा॑ससम्॥ आ स॒वꣳ स॑वि॒तुर्य॑था॒ भग॑स्येव भु॒जिꣳ हु॑वे । अ॒ग्निꣳ स॑मु॒द्रवा॑ससम्॥ हु॒वे वात॑स्वनं क॒विं प॒र्जन्य॑क्रन्द्य॒ꣳ सहः॑ । अ॒ग्निꣳ ’ ह॒व्यमु॒षसो॑ मरुतश्च॒ वृष्टिं॒ भग॑स्य॒ द्वाद॑श च ॥ ३। स॑मु॒द्रवा॑ससम्
No translation available yet.