Taittiriya Samhita 2.2.12
Krishna Yajurveda · Kanda 2, Prapathaka 2 · Verse 2.2.12
Sanskrit Original
हि॒र॒ण्य॒ग॒र्भ आपो॑ ह॒ यत्प्रजा॑पते । स वे॑द पु॒त्रः पि॒तर॒ꣳ स मा॒तर॒ꣳ स सू॒नुर्भु॑व॒थ्स भु॑व॒त्पुन॑र्मघः । स द्यामौर्णो॑द॒न्तरि॑क्ष॒ꣳ स सुवः॒ स विश्वा॒ भुवो॑ अभव॒थ्स आभ॑वत्॥ उदु॒ त्यं चि॒त्रम्॥ स प्र॑त्न॒वन्नवी॑य॒साग्ने᳚ द्यु॒म्नेन॑ सं॒यता᳚ । बृ॒हत्त॑तन्थ भा॒नुना᳚ ॥ नि काव्या॑ वे॒धसः॒ शश्व॑तस्क॒र्हस्ते॒ दधा॑नो॒ नर्या॑ पु॒रू णि॑ । अ॒ग्निर्भु॑वद्रयि॒पती॑ रयी॒णाꣳ स॒त्रा च॑क्रा॒णो अ॒मृता॑नि॒ विश्वा᳚ ॥ हिर॑ण्यपाणिमू॒तये॑ सवि॒तार॒मुप॑ ह्वये । स चेत्ता॑ दे॒वता॑ प॒दम्॥ वा॒मम॒द्य स॑वितर्वा॒ममु॒ श्वो ’ सावीः । वा॒मस्य॒ हि क्षय॑स्य देव॒ भूरे॑र॒या धि॒या वा॑म॒भाजः॑ स्याम ॥ दि॒वेदि॑वे वा॒मम॒स्मभ्यꣳ बडि॒त्था पर्व॑तानां खि॒द्रं बि॑भर्षि पृथिवि । प्र या भू॑मि प्रवत्वति म॒ह्ना जि॒नोषि॑ महिनि ॥ स्तोमा॑सस्त्वा विचारिणि॒ पे॒रुमस्य॑स्यर्जुनि ॥ ऋ॒दू॒दरे॑ण॒ सोमो॒ न्यधा᳚य्य॒स्मे तस्मा॒ सख्या॑ इंद्रं॑ प्रति॑ष्टोभन्त्य॒क्तुभिः॑ सचेय॒ प्र॒तिर॑मे॒म्यच्छ॑ यो मा॒ । प्र या वाजं॒ न हेष॑न्तं न रिष्ये᳚द्धर्यश्व पी॒तः । अ॒यं यः ॥ आपा᳚न्तमन्युस्तृ॒पल॑ प्रभर्मा॒ धुनिः॒ शिमी॑वा॒ञ्छरु॑माꣳ ऋजी॒षी । सोमो॒ विश्वा᳚न्यत॒सा वना॑नि॒ नार्वागिंद्रं॑ प्रति॒माना॑नि देभुः ॥ प्र सु॑वा॒नः सोम॑ ऋत॒युश्चि॑के ॒तेंद्रा॑य॒ ब्रह्म॑ ज॒मद॑ग्नि॒रर्चन्न्॑ । वृषा॑ य॒न्तासि॒ शव॑सस्तु॒रस्या॒न्तर्य॑च्छ ’ह ॥ गृण॒ते ध॒र्त्रं दृꣳ स॒बाध॑स्ते॒ मदं॑च शुष्म॒यं च॒ ब्रह्म॒ नरो᳚ ब्रह्म॒कृतः॑ सपर्यन्न्। अ॒र्को वा॒ यत्तु॒रते॒ सोम॑चक्षा॒स्तत्रेदिंद्रो॑ दधते पृ॒थ्सु तु॒र्याम्॥ वष॑ट् ते विष्णवा॒स आ कृ ॑णोमि॒ तन्मे॑ जुषस्व शिपिविष्ट ह॒व्यम्। वर्ध॑न्तु त्वा सुष्टु॒तयो॒ गिरो॑ मे यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥ ’सामि व॒युना॑नि वि॒द्वान्। तं त्वा॑ गृणामि त॒वस॒मत॑वीया॒न् प्रतत्ते॑ अ॒द्य शि॑पिविष्ट॒ नामा॒र्यः शꣳ क्षय॑न्तम॒स्य रज॑सः परा॒के ॥ किमित्ते॑ विष्णो परि॒चक्ष्यं॑ भू॒त्प्र यद्व॑व॒ क्षे शि॑पिवि॒ष्टो अ॑स्मि । मा वर्पो॑ अ॒स्मदप॑ गूह ए॒तद्यद॒न्यरू॑पः समि॒थे ब॒भूथ॑ ॥ अग्ने॒ दा दा॒शुषे॑ र॒यिं वी॒रव॑न्तं॒ परी॑णसम्। शि॒शी॒हि नः॑ सूनु॒मतः॑ ॥ दा नो॑ अग्ने श॒तिनो॒ दाः स॑ह॒स्रिणो॑ दु॒रो न वाज॒ग्ग्॒ श्रुत्या॒ अपा॑ वृधि । प्राची॒ द्यावा॑पृथि॒वी ब्रह्म॑णा कृधि॒ सुव॒र्ण शु॒क्रमु॒षसो॒ वि दि॑द्युतुः ॥ अ॒ग्निर्दा॒ द्रवि॑णं वी॒रपे॑शा अ॒ग्निरृषिं॒ यः स॒हस्रा॑ स॒नोति॑ । अ॒ग्निर्दि॒वि ह॒व्यमात॑ताना॒ग्नेर्धामा॑नि॒ विभृ॑ता पुरु॒त्रा ॥ मा नो॑ मर्धी॒रा तू भ॑र ॥ घृ॒तं न पू॒तं त॒नूर॑रे॒पाः शुचि॒ हिर॑ण्यम्। तत्ते॑ रु॒क्मो न रो॑चत स्वधावः । उ॒भे सु॑श्चंद्र स॒र्पिषो॒ दर्वी᳚ श्रीणीष आ॒सनि॑ । उ॒तो न॒ उत्पु॑पूर्या उ॒क्थेषु॑ शवसस्पत॒ इषग्ग्॑ स्तो॒तृभ्य॒ आ भ॑र ॥ वायो॑ श॒तꣳ हरी॑णां यु॒वस्व॒ पोष्या॑नाम्। उ॒त वा॑ ते सह॒स्रिणो॒ रथ॒ आ या॑तु॒ पाज॑सा ॥ प्र याभि॒ र्यासि॑ दा॒श्वाꣳ स॒मच्छा॑ नि॒युद्भि॑र्वायवि॒ष्टये॑ दुरो॒णे । नि नो॑ र॒यिꣳ सु॒भोज॑सं युवे॒ह नि वी॒रव॒द्गव्य॒मश्वि॑यं च॒ राधः॑ ॥ taittirIyasamhitA.pdf रे॒वती᳚र्नः सध॒माद॒ इंद्रे॑ सन्तु तु॒विवा॑जाः । क्षु॒मन्तो॒ याभि॒र्मदे॑म ॥ रे॒वाꣳ इद्रे॒वतः॑ स्तो॒ता स्यात्त्वाव॑तो म॒घोनः॑ । प्रे दु॑ हरिवः श्रु॒तस्य॑
a The golden germ. b When the waters. c O Prajapati. d He as a son knoweth the father, he the mother, He is a son, he is of generous returns; He hath enveloped the sky, the atmosphere, he the heaven; He hath become all the worlds, he hath come to be. e Up that. f The radiant. g Thou from of old with thy new glory, O Agni, with thy companion light, Hast mightily outstretched. h He doth put down the wise contrivings of every worshipper;