Taittiriya Samhita 1.7.13
Krishna Yajurveda · Kanda 1, Prapathaka 7 · Verse 1.7.13
Sanskrit Original
अन्वह॒ मासा॒ अन्विद्वना॒न्यन्वोष॑धी॒रनु॒ पर्व॑तासः । अन्विन्द्र॒ꣳ रोद॑सी वावशा॒ने अन्वापो॑ अजिहत॒ जाय॑मानम्॥ अनु॑ ते दायि म॒ह इ॑न्द्रि॒याय॑ स॒त्रा ते॒ विश्व॒मनु॑ वृत्र॒हत्ये᳚ । अनु॑ क्ष॒त्रमनु॒ सहो॑ यज॒त्रेन्द्र॑ दे॒वेभि॒रनु॑ ते नृ॒षह्ये᳚ ॥ इ॒न्द्रा॒णीमा॒सु नारि॑षु सु॒पत्नी॑म॒हम॑श्रवम्। न ह्य॑स्या अप॒रं च॒न ज॒रसा॒ ’ ह॒विः प्रि॒यं दे॒वेषु॒ मर॑ते॒ पतिः॑ ॥ नाहमि॑न्द्राणि रारण॒ सख्यु॑र्वृ॒षाक॑पेर्ऋ॒ते । यस्ये॒दमप्यꣳ गच्छ॑ति ॥ यो जा॒त ए॒व प्र॑थ॒मो मन॑स्वान्दे॒वो दे॒वान्क्रतु॑ना प॒र्यभू॑षत्। यस्य॒ शुष्मा॒द्रोद॑सी॒ अभ्य॑सेतां नृ॒म्णस्य॑ म॒ह्ना स ज॑नास॒ इन्द्रः॑ ॥ आ ते॑ म॒ह इ॑न्द्रो॒त्यु॑ग्र॒ सम॑न्यवो॒ यत्स॒मर॑न्त॒ सेनाः᳚ । पता॑ति दि॒द्युन्नर्य॑स्य बाहु॒वोर्मा ते॒ मनो॑ विष्व॒द्रिय॒ग्विचा॑रीत्॥ मा नो॑ मर्धी॒रा भ॑रा द॒द्धि तन्नः॒ प्र दा॒शुषे॒ दात॑वे॒ भूरि॒ यत्ते᳚ । नव्ये॑ दे॒ष्णे श॒स्ते अ॒स्मिन्त॑ उ॒क्थे प्र ब्र॑वाम व॒यमि॑न्द्र स्तु॒वन्तः॑ ॥ आ तू भ॑र॒ माकि॑रे॒तत् परि॑ष्ठाद्वि॒द्मा हि त्वा॒ वसु॑पतिं॒ वसू॑नाम्। इन्द्र॒ यत्ते॒ माहि॑नं॒ दत्र॒मस्त्य॒स्मभ्यं॒ तद्ध॑र्यश्व॒ ’ हवामह॒ इन्द्र॒मा ह॒विषा॑ व॒यम्। उ॒भा हि हस्ता॒ वसु॑ना पृ॒णस्वाऽऽप्र प्र य॑न्धि ॥ प्र॒दा॒तारꣳ य॑च्छ॒ दक्षि॑णा॒दोत स॒व्यात्॥ प्र॒दा॒ता व॒ज्री वृ॑ष॒भस्तु॑रा॒षाट्छु॒ष्मी राजा॑ वृत्र॒हा सो॑म॒पावा᳚ । अ॒स्मिन्, य॒ज्ञे ब॒र्हिष्या नि॒षद्याथा॑ भव॒ यज॑मानाय॒ शं योः ॥ इन्द्रः॑ सु॒त्रामा॒ स्ववा॒ꣳ अवो॑भिः सुमृडी॒को भ॑वतु वि॒श्ववे॑दाः । बाध॑तां॒ द्वेषो॒ अभ॑यं कृणोतु सु॒वीर्य॑स्य॒ पत॑यः स्याम ॥ तस्य॑ व॒यꣳ सु॑म॒तौ य॒ज्ञिय॒स्यापि॑ भ॒द्रे सौ॑मन॒से स्या॑म । स सु॒त्रामा॒ स्ववा॒ꣳ इन्द्रो॑ अ॒स्मे आ॒राच्चि॒द्द्वेषः॑ सनु॒तर्यु॑योतु ॥ रे॒वती᳚र्नः सध॒माद॒ इन्द्रे॑ सन्तु तु॒विवा॑जाः । क्षु॒मन्तो॒ याभि॒र्मदे॑म ॥ प्रोष्व॑स्मै पुरोर॒थमिन्द्रा॑य शू॒षम॑र्चत । अ॒भीके ॑ चिदु लोक॒कृत्स॒ङ्गे स॒मथ्सु॑ वृत्र॒हा । अ॒स्माकं ॑ बोधि चोदि॒ता नभ॑न्तामन्य॒केषा᳚म्। ज्या॒का अधि॒ धन्व॑सु ॥ ज॒रसा॒ मा ते॑ हर्यश्व सु॒वीर्य॒स्याध्येकं ॑ च
a The months, the woods, The plants, the mountains,