Taittiriya Samhita 1.7.1
Krishna Yajurveda · Kanda 1, Prapathaka 7 · Verse 1.7.1
Sanskrit Original
सं त्वा॑ सिंचामि ध्रु॒वो᳚स्य॒ग्निर्मा॑ ब॒र्हिषो॒ऽहमाप्या॑यता॒मग॑न्म॒ यथा॒ वै यो वै श्र॒द्धां प्र॒जाप॑तिर्य॒ज्ञान् ध्रु॒वो॑सीत्या॑ह॒ यो वै स॑प्तद॒शमिंद्रं ॑ वो॒ द्वाद॑श ॥ सं त्वा॑ ब॒र्हिषो॒ऽहं यथा॒ वा ए॒वं वि॒द्वाञ्छ्रौष॑ट्थ्सहसाव॒न्नेक॑ पंचा॒शत्॥ सं त्वा॑ सिंचामि॒ दस्यून्॑ ॥ प्रथमकाण्डे सप्तमः प्रश्नः ७ पा॒क॒य॒ज्ञं वा अन्वाहि॑ताग्नेः प॒शव॒ उप॑ तिष्ठन्त॒ इडा॒ खलु॒ वै पा॑कय॒ज्ञः सैषान्त॒रा प्र॑याजानूया॒जान्, यज॑मानस्य लो॒केऽव॑हिता॒ तामा᳚ह्रि॒यमा॑णाम॒भि म॑न्त्रयेत॒ सुरू॑पवर्षवर्ण॒ एहीति॑ प॒शवो॒ वा इडा॑ प॒शूने॒वोप॑ ह्वयते य॒ज्ञं वै दे॒वा अदु॑ह्रन्, य॒ज्ञोऽसु॑राꣳ अदुह॒त्तेऽसु॑रा य॒ज्ञदु॑ग्धाः॒ परा॑ऽभव॒न्॒ यो वै य॒ज्ञस्य॒ दोहं॑ वि॒द्वान् यज॒तेऽप्य॒न्यं यज॑मानं दुहे॒ सा मे॑ स॒त्याऽऽशीर॒स्य य॒ज्ञस्य॑ भूया॒दित्या॑है॒ष वै य॒ज्ञस्य॒ दोह॒स्तेनै॒वैनं॑ दुहे॒ प्रत्ता॒ वै गौर्दु॑हे॒ प्रत्तेडा॒ यज॑मानाय दुह ए॒ते वा इडा॑यै॒ स्तना॒ इडोप॑हू॒तेति॑ वा॒युर्व॒थ्सो यर्हि॒ होतेडा॑मुप॒ह्वये॑त॒ तर्हि॒ यज॑मानो॒ होता॑र॒मीक्ष॑माणो वा॒युं मन॑सा ध्यायेन् मा॒त्रे व॒थ्समु॒पाव॑सृजति॒ सर्वे॑ण॒ वै य॒ज्ञेन॑ दे॒वाः सु॑व॒र्गं लो॒कमा॑यन्पाकय॒ज्ञेन॒ मनु॑रश्राम्य॒थ्सेडा॒ मनु॑मु॒पाव॑र्तत॒ तान्दे॑वासु॒रा व्य॑ह्वयन्त प्र॒तीचीं᳚ दे॒वाः परा॑ची॒मसु॑राः॒ सा दे॒वानु॒पाव॑र्तत प॒शवो॒ वै तद्दे॒वान॑वृणत प॒शवोऽसु॑रानजहु॒र्यं का॒मये॑ताप॒शुः स्या॒दिति॒ परा॑चीं॒ तस्येडा॒मुप॑ह्वयेताप॒शुरे॒व भ॑वति॒ यं का॒मये॑त पशु॒मान्थ्स्या॒दिति॑ वदन्ति॒ स त्वा इडा॒मुप॑ह्वयेत॒ प्र॒तीचीं॒ तस्येडा॒मुप॑ह्वयेत पशु॒माने॒व भ॑वति ब्रह्मवा॒दिनो॑ य इडा॑मुप॒हूया॒त्मान॒मिडा॑यामुप॒ह्वये॒तेति॒ सा नः॑ प्रि॒या सु॒प्रतू᳚र्तिर्म॒घोनीत्या॒हेडा॑मे॒वोप॒ हूया॒ऽऽत्मान॒मिडा॑या॒मुप॑ ह्वयते॒ व्य॑स्तमिव॒ वा ए॒तद्य॒ज्ञस्य॒ यदिडा॑ सा॒मि प्रा॒श्ञन्ति॑ सा॒मि मा᳚र्जयन्त ए॒तत् प्रति॒ वा असु॑राणां य॒ज्ञो व्य॑च्छिद्यत॒ ब्रह्म॑णा दे॒वाः सम॑दधु॒ र्बृह॒स्पति॑स्तनुतामि॒मं न॒ इत्या॑ह॒ ब्रह्म॒ वै दे॒वानां॒ बृह॒स्पति॒र्ब्रह्म॑णै॒व य॒ज्ञꣳ संद॑धाति॒ विच्छि॑न्नं य॒ज्ञꣳ समि॒मं द॑धा॒त्वित्या॑ह॒ संत॑त्यै॒ विश्वे॑ दे॒वा इ॒ह मा॑दयन्ता॒मित्या॑ह सं॒तत्यै॒व य॒ज्ञं दे॒वेभ्योऽनु॑ दिशति॒ यां वै य॒ज्ञे दक्षि॑णां॒ ददा॑ति॒ ताम॑स्य प॒शवोऽनु॒ संक्रा॑मन्ति॒ स ए॒ष ई॑जा॒नो॑ऽप॒शुर्भावु॑को॒ यज॑मानेन॒ खलु॒ वै तत्का॒र्य॑मित्या॑हु॒र्यथा॑ देव॒त्रा द॒त्तं कु ॑र्वी॒तात्मन् प॒शून् र॒मये॒तेति॒ ब्रध्न॒ पिन्व॒स्वेत्या॑ह य॒ज्ञो वै ब्र॒ध्नो य॒ज्ञमे॒व तन्म॑हय॒त्यथो॑ देव॒त्रैव द॒त्तं कु ॑रुत आ॒त्मन्प॒शून्र॑मयते॒ दद॑तो मे॒ मा क्षा॒यीत्या॒हाक्षि॑तिमे॒वोपै॑ति कुर्व॒तो मे॒ मोप॑ दस॒दित्या॑ह भू॒मान॑मे॒वोपै॑ति ॥ वि॒द्वान्ध्या॑येद्भवति॒ यं ’श॒तिश्च॑
No translation available yet.