Taittiriya Samhita 1.4.2
Krishna Yajurveda · Kanda 1, Prapathaka 4 · Verse 1.4.2
krishna-yajurvedataittiriya-samhitakanda-1prapathaka-4
Sanskrit Original
वाचस्पतये पवस्व वाजिन्वृषा वृष्णो अꣳशुभ्यां गभस्तिपूतो देवो देवानां पवित्रमसि येषां भागोऽसि तेभ्यस्त्वा स्वांकृतोऽसि मधुमतीर्नइषस्कृधि विश्वेभ्यस्त्वेन्द्रियेभ्यो दिव्येभ्यः पार्थिवेभ्यो मनस्त्वाष्टूर्वन्तरिक्षमन्विहि स्वाहा त्वा सुभवः सूर्याय देवेभ्यस्त्वा मरीचिपेभ्य एष ते योनिः प्राणाय त्वा ॥ वाचः सप्तचत्वारिꣳशत्
No translation available yet.