🚧This site is under construction — data is currently being added and may be incomplete or change.🚧
🕉

Sanatan Dharma

सनातन धर्म — Hindu Scripture Knowledge Base

Bhagavata Purana 8.4.17-24

Srimad Bhagavatam · 4 · Verse 17-24

bhagavata-puranaskandha-8adhyaya-4

Sanskrit Original

श्रीभगवानुवाच ये मां त्वां च सरश्चेदं गिरिकन्दरकाननम् । वेत्रकीचकवेणूनां गुल्मानि सुरपादपान् ॥ १७ ॥ शृङ्गाणीमानि धिष्ण्यानि ब्रह्मणो मे शिवस्य च । क्षीरोदं मे प्रियं धाम श्वेतद्वीपं च भास्वरम् ॥ १८ ॥ श्रीवत्सं कौस्तुभं मालां गदां कौमोदकीं मम । सुदर्शनं पाञ्चजन्यं सुपर्णं पतगेश्वरम् ॥ १९ ॥ शेषं च मत्कलां सूक्ष्मां श्रियं देवीं मदाश्रयाम् । ब्रह्माणं नारदमृषिं भवं प्रह्लादमेव च ॥ २० ॥ मत्स्यकूर्मवराहाद्यैरवतारै: कृतानि मे । कर्माण्यनन्तपुण्यानि सूर्यं सोमं हुताशनम् ॥ २१ ॥ प्रणवं सत्यमव्यक्तं गोविप्रान् धर्ममव्ययम् । दाक्षायणीर्धर्मपत्नी: सोमकश्यपयोरपि ॥ २२ ॥ गङ्गां सरस्वतीं नन्दां कालिन्दीं सितवारणम् । ध्रुवं ब्रह्मऋषीन्सप्त पुण्यश्लोकांश्च मानवान् ॥ २३ ॥ उत्थायापररात्रान्ते प्रयता: सुसमाहिता: । स्मरन्ति मम रूपाणि मुच्यन्ते तेꣷहसोऽखिलात् ॥ २४ ॥

śrī-bhagavān uvāca ye māṁ tvāṁ ca saraś cedaṁ giri-kandara-kānanam vetra-kīcaka-veṇūnāṁ gulmāni sura-pādapān

🤖 AI GeneratedAI Generated

$2c