🚧This site is under construction — data is currently being added and may be incomplete or change.🚧
🕉

Sanatan Dharma

सनातन धर्म — Hindu Scripture Knowledge Base

Bhagavata Purana 6.7.2-8

Srimad Bhagavatam · 7 · Verse 2-8

bhagavata-puranaskandha-6adhyaya-7

Sanskrit Original

श्रीबादरायणिरुवाच इन्द्रस्त्रिभुवनैश्वर्यमदोल्लङ्घितसत्पथ: । मरुद्भिर्वसुभी रुद्रैरादित्यैर्ऋभुभिर्नृप ॥ २ ॥ विश्वेदेवैश्च साध्यैश्च नासत्याभ्यां परिश्रित: । सिद्धचारणगन्धर्वैर्मुनिभिर्ब्रह्मवादिभि: ॥ ३ ॥ विद्याधराप्सरोभिश्च किन्नरै: पतगोरगै: । निषेव्यमाणो मघवान्स्तूयमानश्च भारत ॥ ४ ॥ उपगीयमानो ललितमास्थानाध्यासनाश्रित: । पाण्डुरेणातपत्रेण चन्द्रमण्डलचारुणा ॥ ५ ॥ युक्तश्चान्यै: पारमेष्ठ्यैश्चामरव्यजनादिभि: । विराजमान: पौलम्या सहार्धासनया भृशम् ॥ ६ ॥ स यदा परमाचार्यं देवानामात्मनश्च ह । नाभ्यनन्दत सम्प्राप्तं प्रत्युत्थानासनादिभि: ॥ ७ ॥ वाचस्पतिं मुनिवरं सुरासुरनमस्कृतम् । नोच्चचालासनादिन्द्र: पश्यन्नपि सभागतम् ॥ ८ ॥

śrī-bādarāyaṇir uvāca indras tribhuvanaiśvarya- madollaṅghita-satpathaḥ marudbhir vasubhī rudrair ādityair ṛbhubhir nṛpa

🤖 AI GeneratedAI Generated

$27