Bhagavata Purana 4.25.57-61
Srimad Bhagavatam · 25 · Verse 57-61
bhagavata-puranaskandha-4adhyaya-25
Sanskrit Original
क्वचित्पिबन्त्यां पिबति मदिरां मदविह्वल: । अश्नन्त्यां क्वचिदश्नाति जक्षत्यां सह जक्षिति ॥ ५७ ॥ क्वचिद्गायति गायन्त्यां रुदत्यां रुदति क्वचित् । क्वचिद्धसन्त्यां हसति जल्पन्त्यामनु जल्पति ॥ ५८ ॥ क्वचिद्धावति धावन्त्यां तिष्ठन्त्यामनु तिष्ठति । अनु शेते शयानायामन्वास्ते क्वचिदासतीम् ॥ ५९ ॥ क्वचिच्छृणोति शृण्वन्त्यां पश्यन्त्यामनु पश्यति । क्वचिज्जिघ्रति जिघ्रन्त्यां स्पृशन्त्यां स्पृशति क्वचित् ॥ ६० ॥ क्वचिच्च शोचतीं जायामनुशोचति दीनवत् । अनु हृष्यति हृष्यन्त्यां मुदितामनु मोदते ॥ ६१ ॥
kvacit pibantyāṁ pibati madirāṁ mada-vihvalaḥ aśnantyāṁ kvacid aśnāti jakṣatyāṁ saha jakṣiti
🤖 AI GeneratedAI Generated
$45