🚧This site is under construction — data is currently being added and may be incomplete or change.🚧
🕉

Sanatan Dharma

सनातन धर्म — Hindu Scripture Knowledge Base

Bhagavata Purana 11.11.34-41

Srimad Bhagavatam · 11 · Verse 34-41

bhagavata-puranaskandha-11adhyaya-11

Sanskrit Original

मल्लिङ्गमद्भक्तजनदर्शनस्पर्शनार्चनम् । परिचर्या स्तुति: प्रह्वगुणकर्मानुकीर्तनम् ॥ ३४ ॥ मत्कथाश्रवणे श्रद्धा मदनुध्यानमुद्धव । सर्वलाभोपहरणं दास्येनात्मनिवेदनम् ॥ ३५ ॥ मज्जन्मकर्मकथनं मम पर्वानुमोदनम् । गीतताण्डववादित्रगोष्ठीभिर्मद्गृहोत्सव: ॥ ३६ ॥ यात्रा बलिविधानं च सर्ववार्षिकपर्वसु । वैदिकी तान्त्रिकी दीक्षा मदीयव्रतधारणम् ॥ ३७ ॥ ममार्चास्थापने श्रद्धा स्वत: संहत्य चोद्यम: । उद्यानोपवनाक्रीडपुरमन्दिरकर्मणि ॥ ३८ ॥ सम्मार्जनोपलेपाभ्यां सेकमण्डलवर्तनै: । गृहशुश्रूषणं मह्यं दासवद् यदमायया ॥ ३९ ॥ अमानित्वमदम्भित्वं कृतस्यापरिकीर्तनम् । अपि दीपावलोकं मे नोपयुञ्ज्यान्निवेदितम् ॥ ४० ॥ यद् यदिष्टतमं लोके यच्चातिप्रियमात्मन: । तत्तन्निवेदयेन्मह्यं तदानन्त्याय कल्पते ॥ ४१ ॥

mal-liṅga-mad-bhakta-jana- darśana-sparśanārcanam paricaryā stutiḥ prahva- guṇa-karmānukīrtanam

🤖 AI GeneratedAI Generated

$4e