Bhagavata Purana 10.12.7-11
Srimad Bhagavatam · 12 · Verse 7-11
bhagavata-puranaskandha-10adhyaya-12
Sanskrit Original
केचिद्वेणून्वादयन्तो ध्मान्त: शृङ्गाणि केचन । केचिद्भृङ्गै: प्रगायन्त: कूजन्त: कोकिलै: परे ॥ ७ ॥ विच्छायाभि: प्रधावन्तो गच्छन्त: साधु हंसकै: । बकैरुपविशन्तश्च नृत्यन्तश्च कलापिभि: ॥ ८ ॥ विकर्षन्त: कीशबालानारोहन्तश्च तैर्द्रुमान् । विकुर्वन्तश्च तै: साकं प्लवन्तश्च पलाशिषु ॥ ९ ॥ साकं भेकैर्विलङ्घन्त: सरित: स्रवसम्प्लुता: । विहसन्त: प्रतिच्छाया: शपन्तश्च प्रतिस्वनान् ॥ १० ॥ इत्थं सतां ब्रह्मसुखानुभूत्या दास्यं गतानां परदैवतेन । मायाश्रितानां नरदारकेण साकं विजह्रु: कृतपुण्यपुञ्जा: ॥ ११ ॥
kecid veṇūn vādayanto dhmāntaḥ śṛṅgāṇi kecana kecid bhṛṅgaiḥ pragāyantaḥ kūjantaḥ kokilaiḥ pare
🤖 AI GeneratedAI Generated
$2a