Shalya Parva 13.12
Rahular Itihasa / M. N. Dutt · Shalya Parva Chapter 13 · Verse 12
Sanskrit Original
चक्राणां पततां चापि युगानां च धरातले॥ तूणीराणां पताकानां ध्वजानां च रथैः सह। ईषाणामनुकर्षाणां त्रिवेणूनां च भारत॥ अक्षाणमथ योक्त्राणां प्रतोदानां च सर्वशः। शिरसां पततां चापि कुण्डलोष्णीषधारिणाम्॥ भुजानां च महाभाग स्कन्धानां च समन्ततः। छत्राणां व्यजनैः सार्धं मुकुटानां च राशयः॥ समदृश्यन्त पार्थस्य रथमार्गेषु भारत।
Then were seen along the tracks of Partha's car, O Bharata, number of broken wheels, yokes, quivers, banners, standards, with the cars themselves that bore them, of arrows, the Anukarshas, Trivenus, axles, traces and goads, heads of warriors decked with ear-rings and head-gears, arms, things in thousands of umbrellas along with fans and of diadems and crowns.