Bhishma Parva 56.28
Rahular Itihasa / M. N. Dutt · Bhishma Parva Chapter 56 · Verse 28
Sanskrit Original
परिघाणां प्रदीप्तानां मुद्गराणां च मारिष। प्रासानां भिन्दिपालानां निस्त्रिंशानां च संयुगे॥ परश्वधानां तीक्ष्णानां तोमराणां च भारत। वर्मणां चापविद्धानां काञ्चनानां च भूमिप॥ ध्वजानां चर्मणां चैव व्यजनानां च सर्वशः। छत्राणां हेमदण्डानां तोमराणां च भारत॥ प्रतोदानां च योक्त्राणां कशानां चैव मारिष। राशय: स्मात्र दृश्यन्ते विनिकीर्णा रणक्षितौ॥
O sire, O descendant of Bharata, spiked mace broken in fragment, mallets, bearded darts, short arrows, swords, sharp edged battle axes, lances, broken shields, armours, standards, every sort of weapons, umbrellas with golden staves, iron-hooks, goads, whips, and traces were all seen strewn over the field of battle in heaps.