Shanti Parva 318.51
Rahular Itihasa / M. N. Dutt · Shanti Parva Chapter 318 · Verse 51
Sanskrit Original
जैगीषव्यस्यासितस्य देवलस्य मया श्रुतम्। पराशरस्य विप्रर्वार्षगण्यस्य धीमतः॥ भृगोः पञ्चशिखस्यास्य कपिलस्य शुकस्य च। गौतमस्यार्टिषेणस्य गर्गस्य च महात्मनः॥ नारदस्यासुरेश्चैव पुलस्त्यस्य च धीमतः। सनत्कुमारस्य ततः शुक्रस्य च महात्मनः॥ कश्यपस्य पितुश्चैव पूर्वमेव मया श्रुतम्। तदनन्तरं च रुद्रस्य विश्वरूपस्य धीमतः॥ दैवतेभ्यः पितृभ्यश्च दैतेयेभ्यस्ततस्ततः। प्राप्तमेतन्मया कृत्स्नं वेद्यं नित्यं वदन्त्युत॥
I have heard discourses on this subject from Jaigishavya, Asita, Devala, the regenerate sage Parashara, the intelligent Varshaganya, Bhrigu, Panchashikha, Kapila, Shuka, Gautama, Arshtisena, the great Garga, Narada, Asuri, the intelligent Paulastya, Sanatkumara, the great Shukra, and my father Kashyapa. Subsequently I heard this from Rudra and the intelligent Vishvarupa several of the gods, the Pitris, and the Daityas. I have gained all that they say, for they generally describe that eternal object of all knowledge.