Bhagavad Gita Bhashya (Sri Madhvacharya) 9.8
Bhagavad Gita Bhashya (Sri Madhvacharya) 9.8 · 9 · Verse 8
Sanskrit Original
।।9.8।।प्रकृत्यवष्टम्भस्तु यथा कश्चित्समर्थोऽपि पादेन गन्तुं लीलया दण्डमवष्टभ्य गच्छति।सर्वभूतगुणैर्युक्तं नैवं त्वं ज्ञातुमर्हसि [म.भा.12।339।46] इतिसर्वभूतगुणैर्युक्तं दैवं मां ज्ञातुर्महसि इति च मोक्षधर्मे।विदित्वा सप्त सूक्ष्माणि षडङ्गं च महेश्वरम्। प्रधानविनियोगस्थः परं ब्रह्माधिगच्छति इति च।न कुत्रचिच्छक्तिरनन्तरूपा विहन्यते तस्य महेश्वरस्य। तथापि मायामधिरुह्य देवः प्रवर्तते सृष्टिविलापनेषु इति ऋग्वेदखिलेषु।मय्यनन्तगुणेऽनन्ते गुणतोऽनन्तविग्रहे इति भागवते [6।4।28] अथ कस्मादुच्यते परं ब्रह्मेति [बृहद्बृहत्या] बृंहति बृंहयति इति चाथर्वणे [अथर्वशिर उप.4] पराऽस्य शक्तिर्विविधैव श्रूयते [श्वे.उ.6।8] इति च। विष्णोर्नु कं वीर्याणि प्रवोचं यः पार्थिवानि विममे रजांसि। [ऋक्सं.2।2।24।1] न ते विष्णो जायमानो न जातो देव महिम्नः परमं तमाप [ऋक्सं.5।6।24।2] इत्यादेश्च। प्रकृतेर्वशादवशम्। त्वमेवैतत्सर्जने सर्वकर्मण्यनन्तशक्तोऽपि स्वमाययैव। मायावशं चावशं लोकमेतत्तस्मात्स्रक्ष्यस्यत्सि पासीश विष्णो इति गौतमखिलेषु।
Although the prime cause is unshaken, even a mighty being may by sport be constrained and proceed as if bound. ‘You cannot know Me as joined to all the qualities of beings’ — so the liberation teaching states: by knowing the divine with the qualities of all beings you cannot know Me; yet by knowing Me as the great Lord associated with subtleities one attains supreme Brahman. The scriptures speak of the Lord’s immeasurable power and of His assuming Maya’s seat and carrying out creation’s play. The Vedas and the Puranas declare that the supreme power is manifold and that Vishnu, by His infinite potency, creates and sustains this world though the world is subject to Maya.