Bhagavad Gita Bhashya (Sri Madhvacharya) 10.6
Bhagavad Gita Bhashya (Sri Madhvacharya) 10.6 · 10 · Verse 6
Sanskrit Original
।।10.6।।पूर्वे सप्तर्षयः -- मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः। वसिष्ठश्च महातेजाः इति मोक्षधर्मोक्ताः [म.भा.12।335।28]। ते हि सर्वपुराणेषु उच्यन्ते। चत्वारः प्रथमाः स्वायम्भुवाद्याः तेषां हीमाः प्रजाः -- नहि भविष्यतामिमाः प्रजा इति युक्तं -- विभागः प्राधान्यं च प्राथमिकत्वादेव भवति। गौतमखिलेषु चोक्तम् -- स्वायम्भुवं रोचिषं च रैवतं च तथोत्तमम्। वेद यः स प्रजावान् इति। पूर्वेभ्यो ह्युत्तरा जायन्त इत्येषां प्राधान्यम्। अजातेषु च ज्यैष्ठ्यम्।तामसस्य भगवदवतारत्वादनुक्तिः। तच्च भागवते प्रसिद्धम्। मानसत्वं च सर्वेषां मनूनामुक्तं भागवते ()ततो मनून्ससर्जान्ते मनसा लोकभावनान् [ ] इति। अन्यपुत्रत्वं त्वपरित्यज्यापि शरीरं तद्भवति। प्रमाणं चोभयविधवाक्यान्यथाऽनुपपत्तिरेव। पूर्व इति विशेषणाच्चैतत्सिद्धिः। मत्तो भावो येषां ते मद्भावाः। ये ते ब्रह्मणो मानसा जातास्ते मत्त एव जाता इति भावः।
The seven ancient ṛṣis of old are: Marīci, Aṅgiras, Pulastya, Pulaha, Kratu, and the mighty Vasiṣṭha — these are declared in the dharma of mokṣa. They are mentioned throughout the Purāṇas. The four foremost—Svāyambhuva and others—are their first progeny; their descendants are born later, and priority follows seniority. In the Gautama and related texts Svāyambhuva, Ruciṣa, Raivata and Uttama are named as those who had progeny; the Veda calls him the progenitor. The higher originate from the earlier ones; among the unmanifest the first-born have precedence. The argument for the avatārahood of the tamasic one is accepted in the Bhāgavata. The account of Manu as progenitor of all men is given in the Bhāgavata. Even if other sons are abandoned, the body is such. The evidences elsewhere allow no other inference. ‘From Me are those beings’ — their relation to Me is their very being: those born mentally from Brahman are indeed born from Me.