Atharvaveda — Kanda 9, Sukta 6, Mantra 25 (अतिथि-सत्कारः।)
Atharvaveda (Shaunaka Samhita) · Kanda 9 · Verse 9.6.25
Sanskrit Original
(२) १८-३० (१-१३) १ विराट् पुरस्ताद्बृहती, २, १२ साम्नी त्रिष्टुप्, ३ आसुरी अनुषटुप्, ४ साम्नी उष्णिक्, ५,११ साम्नी बृहती (११ भुरिक्) ६ आर्च्यनुष्टुप्, ७ त्रिपदा स्वराडनुष्टुप्, ८ आसुरी गायत्री, ९ साम्नी अनुष्टुप्, १० त्रिपदाऽर्ची त्रिष्टुप्, १३ त्रिपदाऽर्ची पङ्क्तिः (७ पञ्चपदा विराट् पुरस्ताद्बृहती, ८ साम्न्यनुष्टुप् वा) य॒ज॒मा॒न॒ब्रा॒ह्म॒णं वा ए॒तदति॑थिपतिः कुरुते॒ यदा॑हा॒र्याऽणि॒ प्रेक्ष॑त इ॒दं भू॑या३ इ॒दा३मिति॑ ।१। १८॥ यदाह॒ भूय॒ उद्ध॒रेति॑ प्रा॒णमे॒व तेन॒ वर्षी॑यांसं कुरुते ।२। १९॥ उप॑ हरति ह॒वींष्या सा॑दयति ।३। २०॥ तेषा॒मास॑न्नाना॒मति॑थिरा॒त्मन् जु॑होति ।४। २१॥ स्रु॒चा हस्ते॑न प्रा॒णे यूपे॑ स्रुक्का॒रेण॑ वषट्का॒रेण॑ ।५। २२॥ ए॒ते वै प्रि॒याश्चाप्रि॑याश्च॒र्त्विजः॑ स्व॒र्गं लो॒कं ग॑मयन्ति॒ यदति॑थयः ।६। २३॥ स य ए॒वं वि॒द्वान् न द्वि॒षन्न॑श्नीया॒न्न द्वि॑ष॒तोऽन्न॑मश्नीया॒न्न मी॑मांसि॒तस्य॒ न मी॑मां॒समा॑नस्य ।७। २४॥ सर्वो॒ वा ए॒ष ज॒ग्धपा॑प्मा॒ यस्यान्न॑म॒श्नन्ति॑ ।८। ॥२५॥
No translation available yet.