Atharvaveda — Kanda 8, Sukta 10, Mantra 12 (विराट्।)
Atharvaveda (Shaunaka Samhita) · Kanda 8 · Verse 8.10.12
Sanskrit Original
(२१) (4-5) (१-१६, १-१६) २२-२३, २६,२९(प्र०) चतुष्पदा साम्नी जगती, २२-२४, २८-२९(द्वि०) साम्नी बृहती, २२,२६ (तृ०) साम्नी उष्णिक्, २२-२३,२६,२९ (च०) आर्च्यनुष्टुप्, २३ (तृ०) आर्ची गायत्री, २४-२५, २८ (प्र०) चतुष्पदा उष्णिक्, २४ (तृ०) प्राजापत्यानुष्टुप्, २४-२५, २७ आर्ची त्रिष्टुप्, २५-२६ (द्वि०) साम्नी उष्णिक्, २५, २७-२८ (तृ०) विराड् गायत्री २७ (प्र०)चतुष्पदा प्राजापत्या जगती, २७ (द्वि०) साम्नी बृहती त्रिष्टुप्, २८ (च०) त्रिपदा ब्राह्मी भुरिग्गायत्री, २९ (तृ०) साम्नी अनुष्टुप्। सोद॑क्राम॒त् सासु॑रा॒नाग॑च्छ॒त् तामसु॑रा॒ उपा॑ह्वयन्त॒ माय॒ एहीति॑ ।। १।। तस्या॑ वि॒रोच॑नः॒ प्राह्रा॑दिर्व॒त्स आसी॑दयस्पा॒त्रं पात्र॑म्।।२।। तां द्विमू॑र्धा॒र्त्व्योऽधो॒क् तां मा॒यामे॒वाधो॑क्।।३।। तां मा॒यामसु॑रा॒ उप॑ जीवन्त्युपजीव॒नीयो॑ भवति॒ य ए॒वं वेद॑ ।।४॥(२२) सोद॑क्राम॒त् सा पि॒तॄ॒नाग॑च्छत् तां पि॒तर॒ उपा॑ह्वयन्त॒ स्वध॒ एहीति॑ ।।५।। तस्या॑ य॒मो राजा॑ व॒त्स आसी॑द् रजतपा॒त्रं पात्र॑म्।।६।। तामन्त॑को मार्त्य॒वोऽधो॒क् तां स्व॒धामे॒वाधो॑क्।।७।। तां स्व॒धां पि॒तर॒ उप॑ जीवन्त्युपजीव॒नीयो॑ भवति॒ य ए॒वं वेद॑।।८॥(२३) सोद॑क्राम॒त् सा म॑नु॒ष्या॒३नाग॑च्छ॒त् तां म॑नु॒ष्या॒३ उपा॑ह्वय॒न्तेरा॑व॒त्येहीति॑ ।।९।। तस्या॒ मनु॑र्वैवस्व॒तो व॒त्स आसी॑त् पृथि॒वी पात्र॑म् ।।१०।। तां पृथी॑ वै॒न्योऽधो॒क् तां कृ॒षिं च॑ स॒स्यं चा॑धोक् ।।११।। ते कृ॒षिं च॑ स॒स्यं च॑ मनु॒ष्या॒३उप॑ जीवन्ति कृ॒ष्टरा॑धिरुपजीव॒नीयो॑ भवति॒ य ए॒वं वेद॑ ।।१२॥(२४) सोद॑क्राम॒त् सा स॑प्तऋ॒षीनाग॑च्छ॒त् तां स॑प्तऋ॒षय॒ उपा॑ह्वयन्त॒ ब्रह्म॑ण्व॒त्येहीति॑ ।।१३।। तस्याः॒ सोमो॒ राजा॑ व॒त्स आसी॒च्छन्दः॒ पात्र॑म् ।।१४।। तां बृह॒स्पति॑राङ्गिर॒सोऽधो॒क् तां ब्रह्म॑ च॒ तप॑श्चाधोक् ।।१५।। तद् ब्रह्म॑ च॒ तप॑श्च सप्तऋ॒षय॒ उप॑ जीवन्ति ब्रह्मवर्च॒स्युऽपजीव॒नीयो॑ भवति॒ य ए॒वं वेद॑ ।१६॥(२५) (5) सोद॑क्राम॒त् सा दे॒वानाग॑च्छ॒त् तां दे॒वा उपा॑ह्वय॒न्तोर्ज॒ एहीति॑ ।।१।। तस्या॒ इन्द्रो॑ व॒त्स आसी॑च्चम॒सः पात्र॑म् ।।२।। तां दे॒वः स॑वि॒ताधो॒क् तामू॒र्जामे॒वाधो॑क् ।।३।। तामू॒र्जां दे॒वा उप॑ जीवन्त्युपजीव॒नीयो॑ भवति॒ य ए॒वं वेद॑ ।।४॥(२६) सोद॑क्राम॒त् सा ग॑न्धर्वाप्स॒रस॒ आग॑च्छत् तां ग॑न्धर्वाप्स॒रस॒ उपा॑ह्वयन्त॒ पुण्य॑गन्ध॒ एहीति॑ ।।५।। तस्या॑श्चि॒त्रर॑थः सौर्यवर्च॒सो व॒त्स आसी॑त् पुष्करप॒र्णं पात्र॑म् ।।६।। तां वसु॑रुचिः सौर्यवर्च॒सोऽधो॒क् तां पुण्य॑मे॒व ग॒न्धम॑धोक् ।।७।। तं पुण्यं॑ ग॒न्धं ग॑न्धर्वाप्स॒रस॒ उप॑ जीवन्ति॒ पुण्य॑गन्धिरुपजीव॒नीयो॑ भवति॒ य ए॒वं वेद॑ ।।८॥(२७) सोद॑क्राम॒त् सेत॑रज॒नानाग॑च्छत् तामि॑तरज॒ना उपा॑ह्वयन्त॒ तिरो॑ध॒ एहीति॑।।९।। तस्याः॒ कुबे॑रो वैश्रव॒णो व॒त्स आसी॑दामपा॒त्रं पात्र॑म् ।।१०।। तां र॑ज॒तना॑भिः काबेर॒कोऽधो॒क् तां ति॑रो॒धामे॒वाधो॑क् ।।११। तां ति॑रो॒धामि॑तरज॒ना उप॑ जीवन्ति॒ ति॒रो ध॑त्ते॒ सर्वं॑ पा॒प्मान॑मुपजीव॒नीयो॑ भवति॒ य ए॒वं वेद॑॥१२॥
No translation available yet.