Atharvaveda — Kanda 4, Sukta 15, Mantra 1 (वृष्टिः।)
Atharvaveda (Shaunaka Samhita) · Kanda 4 · Verse 4.15.1
Sanskrit Original
१-१६ अथर्वा। १ दिशः, २-३ वीरुधः, ४ मरुत्पर्जन्यौ, ५-१० मरुतः आपः, ११ प्रजापतिः, स्तनयित्नुः, १२ वरुणः, १३-१५ मण्डूकाः पितरश्च, १६ वातः। त्रिष्टुप्, १-२, ५ विराड् जगति, ४ विराट् पुरस्ताद्बृहती, ७, १३ अनुष्टुप्, ९ पथ्यापङ्क्तिः, १० भुरिक्, १२ पञ्चपदानुष्टुब्गर्भा भुरिक्, १५ शंकुमत्यनुष्टुप्। स॒मुत्प॑तन्तु प्र॒दिशो॑ नभ॑स्वतीः॒ सम॒भ्राणि॒ वात॑जूतानि यन्तु । म॒ह॒ऋ॒ष॒भस्य॒ नद॑तो॒ नभ॑स्वतो वा॒श्रा आपः॑ पृथि॒वीं त॑र्पयन्तु ॥१॥
samutpatantu pradiśo nabhasvatīḥ samabhrāṇi vātajūtāni yantu. mahaṛṣabhasya nadato nabhasvato vāśrā āpaḥ pṛthivīṃ tarpayantu.
Let the quarters of the sky arise, wind-borne; let the cloud-masses driven by Vāta set forth. May the bellowing, mighty bull—Nabhasvat—release the cows, the waters, to satisfy the earth.