Bhagavad Gita Bhashya (Adi Shankaracharya) 11.24
Bhagavad Gita Bhashya (Adi Shankaracharya) 11.24 · 11 · Verse 24
Sanskrit Original
।।11.24।। --,नभःस्पृशं द्युस्पर्शम् इत्यर्थः? दीप्तं प्रज्वलितम्? अनेकवर्णम् अनेके वर्णाः भयंकराः नानासंस्थानाः यस्मिन् त्वयि तं त्वाम् अनेकवर्णम्? व्यात्ताननं व्यात्तानि विवृतानि आननानि मुखानि यस्मिन् त्वयि तं त्वां व्यात्ताननम्? दीप्तविशालनेत्रं दीप्तानि प्रज्वलितानि विशालानि विस्तीर्णानि नेत्राणि यस्मिन् त्वयि तं त्वां दीप्तविशालनेत्रं दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा प्रव्यथितः प्रभीतः अन्तरात्मा मनः यस्य मम सः अहं प्रव्यथितान्तरात्मा सन् धृतिं धैर्यं न विन्दामि न लभे शमं च उपशमनं मनस्तुष्टिं हे विष्णो।।कस्मात् --,
11.24 O Visnu, hi, verily; drstva, seeing; tvam, You; nabhah-sprsam, touching heaven; diptam, blazing; aneka-varnam, with many colours, (i.e.) possessed of many frightening forms; vyatta-ananam, open-mouthed; dipta-visala-netram, with firey large eyes; I, pravyathita-antara-atma, becoming terrified in my mind; na vindami, do not find; dhrtim, steadiness; ca, and; samam, peace, calmness of mind. Why?