Bhagavad Gita Bhashya (Adi Shankaracharya) 11.10
Bhagavad Gita Bhashya (Adi Shankaracharya) 11.10 · 11 · Verse 10
Sanskrit Original
।।11.10।। --,अनेकवक्त्रनयनम् अनेकानि वक्त्राणि नयनानि च यस्मिन् रूपे तत् अनेकवक्त्रनयनम्? अनेकाद्भुतदर्शनम् अनेकानि अद्भुतानि विस्मापकानि दर्शनानि यस्मिन् रूपे तत् अनेकाद्भुतदर्शनं रूपम्? तथा अनेकदिव्याभरणम् अनेकानि दिव्यानि आभरणानि यस्मिन् तत् अनेकदिव्याभरणम्? तथा दिव्यानेकोद्यतायुधं दिव्यानि अनेकानि अस्यादीनि उद्यतानि आयुधानि यस्मिन् तत् दिव्यानेकोद्यतायुधम्? दर्शयामास इति पूर्वेण संबन्धः।।किञ्च --,
11.10 A form aneka-vaktra-nayanam, having many faces and eyes; aneka-adbhuta-darsanam, possessing many wonderful sights; as also aneka-divya-abharanam, adorned with numerous celestial ornaments; and divya-aneka-udyata-ayudham, holding many uplifted heavenly weapons. This whole portion is connected with the verb '(He) showed' in the earlier verse. Moreover,